________________
*******
अभ्यंतरंगारिजयं विधेहि । स्याद्येन ते शाश्वतराज्यलक्ष्मीः ||१|| तदाकर्ण्य सहस्रमल्लोऽपि व्यजिज्ञपत्-हे नाथ! विज्ञायत एव बाह्या-रीणां जयः किंत्वधुना मदग्रे ।। दिशान्तरंगारिभयं तथा त-ज्जयं यथा तत्र करोमि यत्नम् ||१|| गुरवोऽप्यूचुः - वत्सांतरा जेतुमतीवदुर्धराः । कर्मादयः शत्रुगणा अतस्ते ।। दीक्षाध्वजिन्योपशमासिनाप्युच्छेद्यास्ततो निर्वृतिराज्यसौख्यम् ||१|| इति निशम्य सहस्रमल्लस्तृणवद्राज्यमुत्सृज्य गुरुपादांते प्राव्राजीत्, अजनि च गीतार्थः, कदाचिदंगीकृतजिनकल्पः सहस्रमल्लराजर्षिर्विहरन् कालसेनस्य पुरेऽगात्, तस्थौ च तत्र प्रतिमयाचलवदचलः, अस्मिन् क्षणे राजपाटिकार्थं पुरान्निर्गच्छन् कालसेनस्तं मुनिं दृष्ट्वा दुष्ट इत्यध्यासीत्-अहो स एवैष सहस्रमल्लो । निसर्गशत्रुर्मुनिवेषदंभात् ।। पुनर्ग्रहीतुं समुपस्थितो मां । तन्मारयाम्येनमवश्यमद्य । | १|| इति ध्यात्वा स दुरात्मा नानामारैस्तं मारयितुमारेभे, समर्थोऽपि सहस्रमल्ल इत्यचिन्तयत्-आत्मन् विप्रकृतोऽप्येष । परलोकपथाप्तये । सार्थवाह इवातस्त्वं । मा कोपाटोपमुह ||१|| भज काम्यतमं साम्यं । सहस्वैतत्कृतां व्यथाम् ।। सहनं प्रभविष्णोर्हि | महापुण्याय जायते ||२|| इति शुभध्यानो मृत्वा सहस्रमल्लः सर्वार्थसिद्धिविमाने सुरः समजनि । इत्थं निशम्याशु सहस्रमल्ल - कथानकं भव्यजना भव॑द्भिः ।। समर्थतायामपि सूत्रणीया । सहिष्णुता येन भवेत् स्वसिद्धिः ।।१।।
।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ प्रभविष्णुप्रशस्यसहिष्णुत्वे सहस्रमल्लकथा ।। विद्यमानविभवतनुतरविभवप्रशस्यौदार्यप्रभविष्णुप्रशस्यसहिष्णुत्ववैषयिकीर्नरदेवकुमारधीरसहस्रमल्लकथाः श्रुत्वा
Education Intemations
****
प्र. ६२
उ. ७८
सहस्रमल्लस्य
दीक्षा
क्षमा च
प्रश्नो
सटीका
४१२ www.jainelibrary.org