Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 210
________________ प्राणनयतत्त्वालोकालङ्कारःणिकोऽपि षतर्कीपरितर्ककर्कशशेमुषीविशेषसङ्ख्यावद्विराजिराजसभायां खरविषाणमस्ति नास्ति वेति केनापि प्रसर्पहर्पोद्भुरकन्धरण साक्षेपं प्रत्याहतोऽवश्यं पुरुषाभिमानी किञ्चिद् ब्रूयाद् न तूष्णीमेव पुष्णीयात् ; अप्रकृतं च किमपि प्रलपन सनिकारं निस्सार्येत, प्रकृतभाषणे तु विकल्पसिद्धं धर्मिणं विहाय काऽन्या गतिरास्ते ?। अप्रामाणिके वस्तुनि मूकवावदूकयोः कतरः श्रेयानिति स्वयमेव विवेचयन्तु तार्किकाः ? इति चेत्, ननु भवान् स्वोक्तमेव तावद्विवेचयतु, मूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धं धर्मिणं विधाय मूकताधर्म च विदधातीत्यनात्मज्ञशेखरः । तस्मात्प्रामाणिकेनापि स्वीकर्तव्यैव कापि विकल्पसिद्धिः । न च सैव सर्वत्रास्तु, कृतं प्रमाणेनेति वाच्यम् । तदन्तरेण नियतव्यवस्थाऽयोगात्। एको विकल्पयति, अस्ति सर्वज्ञोऽन्यस्तु नास्तीति किमत्र प्रतिपद्यताम्?। प्रमाणमुद्राव्यवस्थापिते त्वन्यतरस्मिन् धर्मे दुर्द्धरोऽपि कः किं कुर्यात् ?। प्रमाणसिद्वयनहे तु धर्मिणि सर्वज्ञखपुष्पादौ विकल्पसिद्धिरपि साधीयसी; तार्किकचक्रचक्रवर्तिनामपि तथा व्यवहारदर्शनात्। एवं शब्दे चाक्षुषत्वमपि सिद्धयेदिति चेत् ?। सत्यम् । तद्विकल्पसिद्धं विधाय यदि तत्रास्तित्वं प्रमाणेन प्रसाधयितुं शक्यते, तदानीमस्तु नाम तत्सिद्धिः; न चैवम् तत्र प्रवर्तमानस्य सर्वस्य हेतोः प्रत्यक्षप्रतिक्षिप्तपक्षत्वेनाकक्षीकारार्हत्वात् ; ततः कथमस्तित्वाप्रसिद्धौ शब्दे चाक्षुषत्वसिद्धिरस्तु ? । एवं च नाश्रयासिद्धो हेत्वाभासः समस्तीति स्थितम्॥ न चैवं विश्वस्य परिणामिकारणत्वादित्यस्यापि गमकता प्राप्नोति; अस्य स्वरूपासिद्धत्वात् प्रधानासिद्धौ विश्वस्य तत्परिणामित्वासिद्धेः। एवमाश्रयैकदेशासिद्धोऽपि न हेत्वाभासः। तर्हि प्रधानात्मानौ नित्यावकृतकत्वादित्ययमप्यात्मनीव प्रधानेऽपि नित्यत्वं गमयेत्। तदसत्यम्। नित्यत्वं खल्वाद्यन्तशून्यसद्रूपत्वम् , आद्यन्तविरहमानं वा विवक्षितम् । आद्येऽत्यन्ताभावेन व्यभिचारः, तस्याकृतकस्याप्यतद्रपत्वात् । द्वितीये सिद्धसाध्यता; अत्यन्ताभावरूपतया प्रधानस्याद्यन्तरहितत्वेन तदभाववादिभिरपि स्वीकारात् । तार्ह देव

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290