Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press
View full book text ________________
१७८ प्रमाणनयतत्त्वालोकालङ्कारःव्यपोहो यो येन जीयते स तस्य शिष्य इत्यादेवादिप्रतिवादिभ्यां प्रतिज्ञातस्यार्थस्य कारणा, पारितोषिकवितरणादिकं च समापतेः कर्म । " विवेकवाचस्पतिरुच्छ्रिताज्ञः क्षमान्वितः संहृतपक्षपातः । सभापतिः प्रस्तुतवादिसभ्यैरभ्यर्थ्यते वादसमर्थनार्थम्"।।१॥२१॥
अथ जिगीषुवादे कियत्कक्षं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहुः-- सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् ॥ __ सह जिगीषुणा जिगीषुभ्यां जिगीषुभिर्वा वर्तते योऽसौ तथा तस्मिन् वादे, वादिप्रतिवादिगतायाः स्वपक्षसिद्धिपरपक्षप्रतिक्षेपविषयायाः शक्तेरशक्तेश्च परीक्षणार्थ यावत् तत्रभवन्तः सभ्याः किलाऽपेक्षन्ते, तावत् कक्षाद्वयत्रयादि स्फूतौ सत्यां वादिप्रतिवादिभ्यां वक्तव्यम्। ते च वाच्यौचित्यपरतन्त्रतया कदाचित् कचित् कियदप्यपेक्षन्ते इति नास्ति कश्चित् कक्षानियमः । इह हि जिगीषुतरतया यः कश्चिद् विपश्चित् प्रागेव पराक्षेपपुरःसरं वादसट्टामसीम्नि प्रवर्तते, तस्य स्वयमेव वादविशेषपरिग्रहे, तदपरिग्रहे सभ्यैस्तत्समर्पणे वाऽग्रवादेऽधिकारः। तेन. सभ्यसभापतिसमक्षमक्षोभेण प्रतिवादिनमुद्दिश्याऽवश्यं स्वसिद्धान्तबुद्धिवैभवानुसारितया साधु साधनं स्वपक्षसिद्धयेऽभिधानीयम् । अथ क्षोभादेः कुतोऽपि प्रागेवाऽसौ वक्तुमशक्तो भवेत् , तदानीं दूरीकृतसमस्तमत्सरविकारैः सभासारैरुभयोरपि वस्तुव्यवस्थापनदूषणशक्तिप-- रीक्षणार्थ तदितरस्याग्रेवादेऽभिषेकः कार्यः। अथ वादिनस्तूष्णीम्भावा-. देव पराजितत्वेन कथापरिसमाप्तेः किमितरस्याग्रवादाभिषेकेण?, इति. चेत्। स्यादेतत्, यदि प्रतिवादिनोऽपि पक्षो न भवेत् , सति तु तस्मिन् वादीव तमसमर्थयमानोऽसौ न जयति, नापि जीयते,प्रौढिप्रदर्शनार्थ तु तद्गृहीतमुक्तमग्रवादमङ्गीकुर्वाणः श्लाघ्यो भवेत्। उभावप्यनङ्गीकुर्वाणौ तु भङ्गयन्तरेण वादमेव निराकुरुत इति तयोः सभ्यैः सभाबहिर्भावएवाऽऽदेष्टव्यः । तत्र वादी स्वपक्षविधिमुखेन वा, परपक्षप्रातिषेधमुखेन
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290