Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 285
________________ रवाकरावतारिकायुक्तः। १८१ यत्रानभ्यासदशायां परतः प्रामाण्यसिद्धिः; तत्र तत्प्रदर्शनीयमेवेति चेत्, यदि न प्रदर्श्यते किं स्यात् ? , ननूक्तमेव-संदेहात् प्रारब्धासिद्धिः, इति चेत्। तर्हि यथा सदपि सामर्थ्यमप्रदर्शितं न प्रतिवादिना प्रतीयते, तद्वत् संदेहोऽपि प्रतिवादिगतोऽप्रदर्शितः कथं वादिना प्रतीयेत ?। स्वबुद्धयोत्प्रेक्ष्यत इति चेत्, इतरेणापि यदि तत्सामथ्र्य स्वबुद्धयैवोत्प्रेक्ष्येत, तदा किं क्षणं स्यात् ? । अथ वादिनः साधनसमर्थनशक्तिं परीक्षितुं न तदुत्प्रेक्ष्यते, तर्हि प्रतिवादिनो दूषणशक्तिं परीक्षितुमितरेणापि न संदेहः स्वयमुत्प्रेक्ष्यते । अथ द्वितीयकक्षायां दूषणान्तरवत् संदेहमपि प्रदर्शयन् स्फोरयत्येव दूषणशक्तिं प्रतिवादी, इति चेत् । तर्हि वाद्यपि तृतीयकक्षायां दूषणान्तरवत् संदेहमपि व्यपोहमानः किं न समर्थनशक्तिं व्यक्तीकरोति ? । किञ्च, केनचित् प्रकारेण सामर्थ्यप्रदर्शनात् कस्यचित् संदेहस्यापोहेऽपि तस्य प्रकारान्तरेण संभवतोऽनपोहे कथं प्रारब्धसिद्धिः ?; विप्रतिपत्तेरिव संदेहस्यापि ह्यपरिमिताः प्रकाराः, इति कियन्तस्ते स्वयमेवाशङ्क्याऽऽशक्य शक्याः पराकर्तुम् ? । न च प्रदर्शितेऽपि सामर्थ्य स्वपक्षैकपक्षपातिनोऽस्य विश्रम्भः संभवति, येन प्रारब्धमवबुध्येत । दृश्यन्ते हि साधनमिव तत्समर्थनमपि कदर्थयन्तः प्रतिवादिनः, इति साधनमभिधाय सामाऽप्रदर्शनेऽपि दोषाभावात् स्थितमेतदकरणे न गुणो न दोषइति । करणे तु यदेव संदेहस्य विवादस्य वा भवेदास्पदम् , तस्यैवोद्धारं कुर्वाणः समलंक्रियते प्रौढतागुणेन, यदुद्धरेत् तत्संदिग्धमेव विवादापन्नमेव चोद्धरेदित्येवमवधार्यते, न तु यावत् संदिग्धं विवादापन्नं वा तावत् सर्वमुद्धरेदेव; असंख्याता हि सन्देहविवादयोर्भेदाः, कस्तान कात्स्न्येन ज्ञातुं निराकर्तु वा शक्नुयात् ।। इति यावत्तेभ्यः प्रसिद्धिः प्रतिभा वा भगवती प्रदर्शयति, तावदुद्धरणीयम् , तदधिकोद्धारकरणे तु कदर्थ्यते सिद्धसाधनाभिधानादिदोषेण । सिद्धमपि साधयंश्च कदा नामायं वावदूको विरमेदिति सत्यं व्याकुलाः स्मः, एकेन प्रमाणेन समर्थितस्यापि हेतोः पुनः समर्थनाय प्रमाणान्तरोपन्यास

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290