Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press
View full book text ________________
रत्नाकरावतारिकायुक्तः 1
वा साधनमभिदधीत, यथा - जीवच्छरीरं सात्मकं प्राणादिमत्त्वान्यथानुपपत्तेरिति, नेदं निरात्मकं तत एवेति । अत्र च यद्यप्यर्थान्तराद्यभिधानेऽपि वस्तुनः साधनदूषणयोरसंभवाद् न कथोपरम:, तथापि परार्थानुमाने वक्तुर्गुणदोषा अपि परीक्ष्यन्त इति न्यायात् स्वात्मनोऽलाध्यत्वविघाताय यावदेवावदातं तावदेवाभिधातव्यम् । अन्यथा शब्दानित्यत्वं साधयितुकामस्य 'प्रागेव नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नामोर्ध्वमाक्रामन्नुरः प्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधाते, स विधार्यमाणः स्थानमभिहन्ति, तस्मात् स्थानाद् ध्वनिरुत्पद्यते ' इत्यादिशिक्षा सूत्रोपदिष्टशब्दोत्पत्तिस्थानादिनिरूपणां कर्णकोटर प्रवेशप्रक्रियां च प्रकाश्य य एवंविधः शब्दः सोऽनित्यः कृतकत्वादिति हेतुमुपन्यस्य पुनः पटकुटादिदृष्टान्तमुत्पत्त्यादिमुखेन वर्णयतः प्रथमकक्षैव न समाप्येत, कुतः प्रतिवादिनोऽवकाशः ? । किश्व, परप्रतिपत्तये वचनमुच्चार्यत इति यावदेव परेणाऽऽकाङ्क्षितम्, तावदेव युक्तं वक्तुम् । लोकेऽपि वादिनोः करणावतीर्णयोरेकः स्वकीयकुलादिवर्णनां कुर्वाणः पराक्रियते, प्रकृतानुगतमेवोच्यतामिति चानुशिष्यते । किं पुनस्तदवदातम् ? इति चेत्, यस्मिन्नभिहिते न भवति मनागपि सचेतसां चेतसि क्लेशलेशः ; एते हि महात्मानो निष्प्रतिमप्रतिभाप्रेयसी - परिशीलनसुकुमारहृदयाः स्वल्पेनाप्यर्थान्तरादिसंकीर्तनेन प्रकृतार्थप्रतिपत्तौ विघ्नायमानेन न नाम न क्लिश्यन्ति । तेन स्वस्वदर्शनानुसारेण साधनं दूषणं चाऽर्थान्तरन्यूनलिष्टतादिदोषाऽकलुषितं वक्तव्यम् । तत्रार्थान्तरं प्रागेव।ऽभ्यधायि । न्यूनं तु नैयायिकस्य चतुरवयवाद्यनुमानमुपन्यस्यतः । क्लिष्टं यथा-यत् कृतकं, कृतकश्चायं यथा घटः, तस्मादनित्यस्तत्तदनित्यम्, कृतकत्वाच्छब्दोऽनित्य इत्यादि व्यवहितसंबन्धम् । नेयार्थ यथा - शब्दोऽनित्यो द्विकत्वादिति, द्वौ ककारौ यत्रेति द्विकशब्देन कृतकशब्दो लक्ष्यते, तेन कृतकत्वादित्यर्थः । व्याकरणसंस्कारहीनं यथा-शब्दोऽनित्यः कृतकत्वस्मादिति । असमर्थ यथा - अयं हेतुर्न स्वसाध्यगमक इत्यर्थेनाऽसौ स्वसाध्यघातक इति । अश्लीलं यथा - नोदनार्थे
१७९
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290