Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 286
________________ १८२ प्रमाणनयतत्त्वालोकालङ्कारःप्रसङ्गात् , साध्यादेरप्येवम् , इति न काञ्चिदमुष्य सीमानमालोकयामः। तेन सिद्धस्य समर्थनमनर्थकत्वाद् न कर्तव्यम्। 'सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यते' इति न्यायात् साध्यसिद्धये त्वभिधानमस्यावश्यमुपेयम् , अपरथा ह्यसिद्धमसिद्धेन साधयतः किं नाम न सिद्धयेत् ? । यत्र तु सिद्धत्वेनोपन्यस्तस्यापि सिद्धत्वं संदिग्धं विवादाधिरूढं वा भवेत् , तत्र तत्समर्थनं सार्थकमेव । ततः स्थितमेतद् यो यत् सिद्धमभ्युपैति, तं प्रति न तत्साधनीयमिति । बौद्धों हि मीमांसकं प्रत्यनित्यः शब्दः सत्त्वात् , इत्यभिधायोभयसिद्धस्यार्थक्रियाकारित्वरूपस्य सस्वस्यासिद्धत्वमुद्धरन न कमप्यर्थ पुष्णाति, केवलं सिद्धमेवार्थ समर्थयमानो न सचेतसामादरास्पदम् । अनैकान्तिकत्वं पुनराशयोद्धरन्नधिरोपयति सरसे सभ्यचेतसि स्वप्रौढिवल्लरीम् । तदिह यथा-कश्चित् चिकित्सकः कुतश्चित् पूर्वरूपादेः संभाव्यमानोत्पत्ति दोषं चिकित्सति, अन्यः कश्चिदुत्पन्नमेव, कश्चित्त्वसंभाव्यमानोत्पत्तितयाऽनुत्पन्नतया च निश्चिताभावम् , इत्येते त्रयोऽपि यथोत्तरमुत्तममध्यमाधमाः; तद्वद्वाद्यप्येकः कथञ्चिदाशयमानोद्भावन दोषं समुद्धरति, अपरः परोद्भावितम् , अन्यस्त्वनाशङ्क्यमानेोद्भावनमनुद्भावितं चेति, एतेऽपि त्रयो यथोत्तरमुत्तममध्यमाधमा इति परमार्थः। "स्वपक्षसिद्धये वादी साधनं प्रागुदीरयेत् । यदि प्रौढिः प्रिया तत्र, दोषानपि तदुद्धरेत्" ॥१॥ . इति संग्रहश्लोकः । - द्वितीयकक्षायां तु प्रतिवादिना स्वात्मनो निर्दोषत्वसिद्धये वादिवदवदातमेव वक्तव्यम् । द्वयं च विधेयम्-परपक्षप्रतिक्षेपः, स्वपक्षसिद्धिश्च । तत्र कदाचिद् द्वयमप्येतदेकेनैव प्रयत्नेन निवर्त्यते, यथानित्यः शब्दः कृतकत्वात् , इत्यादौ विरुद्धोद्भावने, परप्रहरणेनैव परप्राणव्यपरोपणात्मरक्षणप्रायं चैतत् प्रौढतारूपप्रियसखीसमन्वितामेव विजयश्रियमनुषजयति । असिद्धतायुद्भावने तु स्वपक्षसिद्धये सा

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290