Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 215
________________ रत्नाकरावतारिकायुक्तः। १११ पक्षकदेशवृत्तिर्यथा-तत्रैव पक्षे अपदात्मकत्वात् । अयं पक्षैकदेशे वर्णात्मकेऽस्ति नान्यत्र, विपक्षे तु रूपादौ सर्वत्रास्ति । ८ । ननु चत्वार एव विरुद्धभेदा ये पक्षव्यापका नान्ये, ये पक्षैकदेशवृत्तयस्तेषामसिद्धलक्षणोपपन्नत्वात् । तदसत् । उभयलक्षणोपपन्नत्वेनोभयव्यवहारविषयत्वात्, तुलायां प्रमाणप्रमेयव्यवहारवत् । धर्मिस्वरूपविपरीतसाधनर्मिविशेषविपरीतसाधनौ तु सौगतसंमतौ हेत्वाभासावेव न भवतः; साध्यस्वरूपविपर्ययसाधकस्यैव विरुद्धत्वेनाभिधानाद् । अन्यथा समस्तानुमानोच्छेदापत्तिः । तथाहि-अनित्यः शब्दः कृतकत्वादिति हेतुरनित्यतां साधयन्नपि यो यः कृतकः स शब्दो न भवति, यथाघटः । यो यः कृतकः स श्रावणो न भवति । यथा-स एवेति धर्मिणः स्वरूपं विशेषं च साधयत्येवेत्यहेतुः स्यात् , नचैवं युक्तमिति ॥५३॥ . अनैकान्तिकस्वरूपं प्ररूपयन्तियस्यान्यथानुपपत्तिः संदिह्यते सोऽनैकान्तिकः ॥५४॥ साध्यसद्भावे क्वचिद्धेतोर्विभावनात् कचित्तु तदभावेऽपि विभावनादन्यथानुपपत्तिः सन्दिग्धा भवति ॥ ५४ ॥ एतद्भेदसङ्ख्यामाख्यान्तिस द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च॥ निर्णीता विपक्षे वृत्तिर्यस्य स तथा; सन्दिग्धा विपक्षे वृत्तिर्यस्य स तथोक्तः । अयं सन्दिग्धविपक्षव्यावृत्तिकः, सन्दिग्धान्यथानुपपत्तिकः, सन्दिग्धव्यतिरेक इति नामान्तराणि प्राप्नोति ॥ ५५ ॥ · तत्राद्यभेदमुदाहरन्तिनिर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात् ॥५६॥ प्रमेयत्वं हि सपक्षीभूते नित्ये व्योमादौ यथा प्रतीयत तथा विपक्षभूतेऽप्यनित्ये घटादौ प्रतीयत एव; ततश्चोभयत्रापि प्रतीयमानत्वाविशेषात् किमिदं नित्यत्वेनाविनाभूतम् , उताहो ! अनित्यत्वेन? इत्येव

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290