Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 219
________________ रत्नाकरावतारिकायुक्तः। ११५ नत्वात् प्रकरणसमो भवति; प्रकरणे पक्षे प्रतिपक्षे च समस्तुल्य इति । यथा-अनित्यः शब्दो नित्यधर्मानुपलब्धेरित्येकेनोक्ते, द्वितीयः प्राह- यद्यनेन प्रकारेणानित्यत्वं साध्यते तर्हि नित्यतासिद्धिरप्यस्तु, अन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथाहि- नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । अयं चानुपपन्नः, यतो यदि नित्यधर्मानुपलब्धिनिश्चिता, तदा कथमतो नानित्यत्वसिद्धिः?; अथानिश्चिता, तर्हि संदिग्धासिद्धतैव दोषः । अथ योग्यायोग्यविशेषणमपास्य नित्यधर्माणामनुपलब्धिमात्रं निश्चितमेव, तत्तर्हि व्यभिचार्येव । प्रतिवादिनश्वासौ नित्यधर्मानुपलब्धिः स्वरूपासिद्धैव नित्यधर्मोपलब्धेस्तत्रास्य सिद्धेः। एवमनित्यधर्मानुपलब्धिरपि परीक्षणीया; इति-सिद्धं त्रय एव हेत्वाभासाः।।५।। अथ दृष्टान्ताभासान् भासयन्तिसाधम्र्येण दृष्टान्ताभासो नवप्रकारः ॥ ५८ ॥ दृष्टान्तो हि प्राग् द्विप्रकारः प्रोक्तः, साधर्म्यण वैधयेण च । ततस्तदाभासोऽपि तथैव वाच्य इति साधर्म्यदृष्टान्ताभासस्तावत्प्रकारतो दर्शितः ॥ ५८॥ प्रकारानेव कीर्तयन्तिसाध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्मविकलः, सन्दिग्धसाध्यधर्मा, सन्दिग्धसाधनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयोऽप्रदर्शितान्वयो विपरीतान्व यश्चेति ॥ ५९॥ . इतिशब्दः प्रकारपरिसमाप्तौ; एतावन्त एव साधर्म्यदृष्टान्ताभासप्रकारा इत्यर्थः ॥ ५९॥ क्रमेणामून् उदाहरन्तितत्रापौरुषेयः शब्दोऽमूर्त्तत्वाद् दुःखवदिति साध्यधर्म विकलः ॥ १॥ ६ ॥

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290