Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press
View full book text ________________
१६०
प्रमाणनयतत्वालोकालङ्कारः
र्थनीयः, यत एतदर्थानुपातिन्येव स्मृतिरपि विलोक्यते" सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् ।
"
तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः " ॥ १॥ न चायं सुखशब्दो दुःखाभावमात्रे वर्तनीयः, मुख्यसुखवाच्यतायां बाधकाभावात् । न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः को हि नाम शिलाशकलकल्पमपगतसकलसुखसंवदेन स्पर्शमात्मानमुपपादयितुं यतेत ? । सोपाधिकसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गादप्यधिकमनवधिकनिरतिशयनेसर्गिकाऽऽनन्दसुन्दरमपरिम्लानतत्संवेदनसामर्थ्य चतुर्थ पुरुषार्थ - माचक्षते विचक्षणाः । यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तत् कृतमपवर्गेण, संसार एव वरमस्तु; यन्न तावदन्तराऽन्तराऽपि दुःखकलुषितमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदम्-किमल्पसुखानुभवो भव्यः, उत सर्वसुखोच्छेद एव ? | अथास्ति तथाभूते मोक्षे लाभातिरेकः प्रेक्षाणाम् । ते ह्येवं विवेचयन्ति - दुःख संस्पर्शशून्यशाश्वतिकसुखसंभोगासंभवाद् दुःखस्य चाऽवश्यहातव्यत्वाद् विवेकहानस्य चाशक्यत्वाद् विषमधुनी इवैकत्राSमत्रे पतिते उभे अपि सुखदुःखे त्यज्येयातामिति; अतश्च संसाराद् मोक्षः श्रेयान् यन्त्राऽयमियानतिदुः सहो दुःखप्रबन्धोऽवलुप्यते; वरमि-`यती कादाचित्कसुखकणिका त्यक्ता, न तु तस्याः कृते दु:खभारइयान् व्यूढ इति । तत्र दुःखसंस्पर्शशून्यशाश्वतिक सुखसम्भोगासम्भवादित्यत्र शाश्वतिकमनादिनिधनम्, यद्वाऽऽदिमदपि प्रध्वं - सवदपर्यवसानं सुखं विवचितम् । तत्रादिपर्यवसानशून्यं सुखं तावत् प्रेक्षाणामुपादित्सागोचर एव न भवति सदैव प्राप्तत्वात् इति कुतस्तदभावः तत्राऽप्रवृत्तौ प्रेक्षाकारिणां कारणमभिधीयते ? । द्वितीयं तु सुखं भवत्येव तत्प्रवृत्तिनिमित्तम् । न च तस्याऽसंभवः, बाधकप्रमाणाभावात् । अनन्तं च तत्, तदानीं विनाशकारणाभावात् । तद्विनाशकारणं हि कर्म, न च तदानीं तदस्ति, तस्य समूलमुन्मूलित
"
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290