Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 278
________________ १७४ प्रमाणनयतत्वालोकालङ्कारः तृतीयेऽङ्गनियममाहु:तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ परत्र तत्त्वनिर्णिनीषौ क्षायोपशमिकज्ञानशालिनि वादिनि, निवेदितरूपाणां प्रथमद्वितीयतृतीयतुरीयाणां प्रतिवादिनाम् उक्तयुक्त्यैव प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोः कदाचिद् व्यङ्गः, कदाचित् त्र्यङ्गः, तुरीयस्य तु द्वङ्ग एव वादो भवति । निःसीमा हि मोहहतकस्य महिमा, इति कश्चिदात्मानं निर्णीततत्त्वमिव मन्यमानः समग्र पदार्थ परमार्थ - दर्शन वन्यपि तन्निर्णयोपजननार्थ प्रवर्तत इति न कदाचिदसम्भावना, भगवांस्तु केवली प्रबलकृपापीयूषपूरपूरितान्तःकरणतया तमप्यवबोधयतीति को नाम नानुमन्यते ? ।। १३ ।। परोपकारैकपरायणस्य भगवतः केवलिनः संभवन्त्यपि परत्र तत्त्वनिर्णिनीषा न केवल कलावलोकितसकलवस्तुतया कृतकृत्ये केवलिनि विलसितुमुत्सहत इति प्रथमादीनां त्रयाणामेवाङ्गनियममाहुः तुरीये प्रथमादीनामेवम् ॥ १४ ॥ परत्र तत्त्वनिणिनीषौ केवलिनि वादिनि, प्रथमद्वितीयतृतीया - नामेवमिति पूर्ववत् प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोस्तु व्यङ्गएव वा भवतीत्यर्थः । "प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् । संचिन्त्य तस्मादमुमादरेण प्रत्यारभेत प्रतिभाप्रगल्भः " || १ || १४ || चतुरङ्गो वाद इत्युक्तम्, कानि पुनश्चत्वार्यङ्गानि ? इत्याहु:वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥ १५ ॥ स्पष्टम् ।। १५ ।। अथैतेषां लक्षणं कर्म च कीर्तयन्ति - प्रारम्भकप्रत्यारम्भकावेव मछुप्रतिमल्दन्यायेन

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290