Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 268
________________ १६४ प्रमाणनयतत्त्वालोकालङ्कारःमू हेतुत्वाभावेन परिग्रहरूपत्वाभावात् । तन्न सम्यग्दर्शनादिरत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकर्षः । नापि विशिष्टसामर्थ्यासत्त्वेन, यतस्तदपि तासां किं सप्तमपृथ्वीगमनाभावेन, वादादिलब्धिरहितत्वेन, अल्पश्रुतत्वेन, अनुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा भवेत्। न तावदाद्यः पक्षः, यतोऽत्र सप्तमपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते, सामान्येन वा । प्राचि पक्षे चरमशरीरिभिरनेकान्तः । द्वितीये त्वयमाशयः- यथैव हि स्त्रीणां सप्तमपृथ्वीगमनसमर्थतीव्रतराशुभपरिणामे सामर्थ्याभावादपकर्षः, तथा मुक्तिगमनयोग्योत्कृष्टशुभपरिणामेऽपि; चरमशरीरिणां तु प्रसन्नचन्द्रराजर्षिप्रमुखाणामुभयत्रापि सामर्थ्याद् नैकत्राऽप्यपकर्षः । तदयुक्तम् । यतो नायमविनाभावः प्रामाणिकः, यदुत्कृष्टाऽशुभगत्युपार्जनसामर्थ्याभावे सत्युत्कृष्टशुभगत्युपार्जनसामर्थेनाऽपि न भवितव्यम् ; अन्यथा प्रकृष्टशुभगत्युपार्जनसामर्थ्याभावे प्रकृष्टाऽशुभगत्युपार्जनसामर्थ्य नास्तीत्यपि किं न स्यात् ?; तथा चाऽभव्यानां सप्तमपृथ्वीगमनं न भवेत् । अथ वादादिलब्धिरहितत्वेन स्त्रीणां विशिष्टसामर्थ्याऽसत्त्वम् , यत्र खल्वैहिकवादविक्रियाचारणादिलब्धीनामपि हेतुः संयमविशेषरूपं सामर्थ्य नास्ति, तत्र मोक्षहेतुस्तद्भविष्यतीति कः सुधीः श्रद्दधीत ? । तदचारु, व्यभिचारात् ; माषतुषादीनां तदभावेऽपि विशिष्टसामोपलब्धेः । न च लब्धीनां संयमावशेषहेतुकत्वमागमिकम् , कर्मोदयक्षयक्षयोपशमोपशमहेतुकतया तासां तत्रोदितत्वात् । तथा चाऽवाचि “ उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ। . एवं परिणामवसा लद्धीउ हवन्ति जीवाणं " ॥१॥ चक्रवर्तिबलदेववासुदेवत्वादिप्राप्तयोऽपि हि लब्धयः, न च संयमसद्भावनिबन्धना तत्प्राप्तिः। सन्तु वा तन्निबन्धना लब्धयः, तथापि स्त्रीषु तासां सर्वासामभावोऽभिधीयते, नियतानामेव वा। नाद्यः पक्षः, चक्र १ उदयक्षयक्षयोपशमोपशमसमुत्था बहुप्रकाराः । .. एवं परिणामशाद् लब्धयो भवन्ति जीवानाम् ॥ १॥ .

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290