Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 254
________________ १५० प्रमाणनयतत्त्वालोकालङ्कारःन्द्रियसंयोगः प्रतिपादितः । युगपन्नानाशरीरेष्वात्मसमवायिनां सुखदुःखादीनामनुपपत्तिः, विरोधादिति चेत् । न, युगपन्नानाभेर्यादिष्वाकाशसमवायिनां विततादिशब्दानामनुपपत्तिप्रसङ्गात् , तद्विरोधस्याविशेषात्। तथाविधशब्दकारणभेदाद् न तदनुपपत्तिरिति चेत्, सुखादिकारणभेदात् तदनुपपत्तिरप्येकत्राऽऽत्मनि मा भूद्, विशेषाभावात् । विरुद्धधर्माध्यासादात्मनो नानात्वमिति चेत् , तत एवाकाशनानात्वमस्तु । प्रदेशभेदोपचाराददोष इति चेत्, तत एवात्मन्यप्यदोषः । जननमरणकरणादिप्रतिनियमोऽपि सर्वगतात्मवादिनां नाऽऽत्मबहुत्वं साधयेत्, एकत्राऽपि तदुपपत्तेः, घटाकाशादिजननविनाशादिवत् ; न हि घटाकाशस्योत्पत्तौ घटाकाशस्योत्पत्तिरेव, तदा विनाशस्यापि दर्शनात्; नापि विनाशे विनाश एव, जननस्यापि तदोपलम्भात् ; स्थितौ वा न स्थितिरेव विनाशोत्पादयोरपि तदा समीक्षणात् । सति बन्धे न मोक्षः, सति वा मोक्षे न बन्धः स्यात् , एकत्रात्मनि विरोधादिति चेत्। न, आकाशेऽपि सति घटबन्धे घटान्तरमोक्षाभावप्रसङ्गात् ; सति वा घटविश्लेषे घटान्तरविश्लेषप्रसङ्गात् । प्रदेशभेदोपचाराद् न तत्प्रसङ्ग इति चेत्, तत एवात्मनि न तत्प्रसङ्गः । नमसः प्रदेशभेदोपगमे जीवस्याऽप्येकस्य प्रदेशभेदोऽस्त्विति कुतो जीवतत्त्वप्रभेदव्यवस्था ? यतो व्यापकत्वं स्यात् । नन्वात्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावादाद्यकाभावः, तदभावादन्त्यसंयोगस्य तन्निमित्तशरीरस्य, तेन तत्संबन्धस्य चाभावादनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात्। अस्तु वा यथा कथञ्चिच्छरीरोत्पत्तिः, तथापि सावयवंशरीरं प्रत्यवयवमनुप्रविशन्नात्मा सावयवः स्यात् , तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः । कार्यत्वे चासौ विजातीयैः सजातीयैर्वा कारणैरारभ्येत । न प्राच्यः प्रकारः, विजातीयानामनारम्भकत्वात् । न द्वितीयः, यतः सजातीयत्वं तेषामात्मत्वाभिसंबन्धादेव स्यात् , तथा चात्मभिरारभ्यते इत्यायातम् ; एतच्चायुक्तम् , एकत्र शरीरेऽनेकात्मनामात्मारम्भकाणामसम्भवात् , सम्भवे वा प्रतिसन्धानानुपपत्तिः न ह्यन्येन

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290