Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 260
________________ १५६ प्रमाणनयतत्त्वालोकालङ्कारःव्यभिचार इति चेत् । न, तस्याऽऽत्मपरिणामरूपस्य पारतन्त्र्यस्वभावत्वात् ; तन्निमित्तभूतस्य तु कर्मणः पौगलिकत्वात् । एवं सीधुवादनोद्भवचित्तवैकल्यमपि पारतन्त्र्यमेव, तद्धेतुस्तु सीधु पौगलिकमेवेति नैतेनाऽपि व्यभिचारः । ततो यद् यौगैरात्मविशेषगुणलक्षणम् , कापिलैः प्रकृतिविकारस्वरूपम् , सौगतैर्वासनाखभावम् , ब्रह्मवादिभिरविद्यास्वरूपं चाऽदृष्टमवादि; तदपास्तम् । विशेषतः पुनरमीषां निषेधो विस्तराय स्यादिति न कृतः ।। ५६ ॥ अथात्मन एव विशेषणान्तरमाहुःतस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयवरूपा सिद्धिः ॥ ५७ ॥ तस्याऽनन्तरनिरूपितरूपस्याऽऽत्मनः, उपात्तपुत्रीशरीरस्य स्वीकृतपुरुषयोषिद्वपुषः, एतेन स्त्रीनिर्वाणद्वेषिणः काष्ठाम्बरान् शिक्षयन्ति । सम्यग्ज्ञानं च यथावस्थितवस्तुतत्त्वावबोधः, क्रिया च तपश्चरणादिका, ताभ्याम् । ननु सम्यग्दर्शनमपि कृत्स्नकर्मक्षयकारणमेव । यदाहु:-" सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " इति, तत् कथमिह नोपदिष्टम् ? । उच्यते । सम्यग्ज्ञानोपादानेनैव तस्याक्षिप्तत्वात्, द्वयोरप्यनयोः सहचरत्वात् । सम्यग्ज्ञानस्य क्रियातः पृथगुपादानाद्या क्रिया सम्यग्ज्ञानपूर्विका सैव तत्कारणम् , न पुनर्मिथ्यात्वमलपटलावलुप्तविवेकविकलानां मिथ्याज्ञानपूर्विका कन्दफलमूलशैवालकवलनादिका । कृत्स्नस्याऽष्टप्रकारस्यापि, न तु कतिपयस्य, जीवनमुक्तेरनभिधित्सितत्वात् । कर्मणो ज्ञानावरणादेरहष्टस्य, न तु बुद्धयादिगुणानामपि, नापि ज्ञानमात्रसंतानस्य । क्षयः सामस्त्येन प्रलयः स्वरूपं यस्याः सा तथा । एतेन नैयायिकसौगतोपकल्पितमुक्तिप्रतिक्षेपः । एवंविधा सिद्धिर्मोक्षो भवति । इह केचिज्ज्ञानादेव मोक्षमास्थिषत, तथा ते ब्रुवते-सम्यग्ज्ञानमेव फलसंपादनप्रत्यलम् , न क्रिया; अन्यथा मिथ्याज्ञानादपि


Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290