Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 241
________________ रत्नाकरावतारिकायुक्तः। प्रमिणोतीति प्रमाता, किंभूतः क इत्याह-प्रत्यक्षादिप्रसिद्धः प्रत्यक्षपरोक्षप्रमाणप्रतीतः, अतति अपरापरपर्यायान् सततं गच्छतीत्यास्मा जीवः । इहात्मानं प्रति विप्रतिपेदिरे परे । चार्वाकास्तावचर्चयांचक्रु:-कायाकारपरिणामदशायामभिव्यक्तचैतन्यधर्मकाणि पृथिव्यप्तेजोवायुसंज्ञकानि चत्वार्येव भूतानि तत्त्वम् , न तु तद्व्यतिरिक्तः कश्चिद् भवान्तरानुसरणव्यसनवानात्मा; यदुवाच बृहस्पतिः-"पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरविषयेन्द्रियसंज्ञाः; तेभ्यश्चैतन्यम्” इति प्रत्येकमदृश्यमानचैतन्यान्यपि च भूतानि समुदितावस्थानि चैतन्यं व्यञ्जयिष्यन्ति, मदशक्तिवत् ; यथा हि काष्ठपिष्टादयः प्रागदृश्यमानामपि मदशक्तिमासादितसुराकारपरिणामा व्यञ्जयन्ति; तद्वदेतान्यपि चैतन्यमिति । तदेतत् तरलतरमतिविलसितम् , कायाकारपरिणतभूतैश्चैतन्याभिव्यक्तेरसिद्धेः,सतः खल्वभिव्यक्तिर्युक्ता। न च देहदशायाः प्राग् भूतेषु चैतन्यसत्तासाधकं प्रत्यक्षमस्ति, तस्यैन्द्रियकस्यातीन्द्रिये तस्मिन्नप्रवर्तनात् , अनैन्द्रियकस्य तस्य त्वयाऽनङ्गीकाराच्च । नाप्यनुमानम् , तस्याप्यनङ्गीकारादेव । अथ स्वीक्रियत एव लोकयात्रानिर्वाहणप्रवणं धूमाद्यनुमानम् , स्वर्गापूर्वादिप्रसाधकस्यालौकिकस्यैव तस्य तिरस्कारादिति चेत् ; तार्ह कायाकारहेतुष्वकायाकारभूतेषु भूतेषु चैतन्यानुमानमप्यलौकिकं स्याद्, लौकिकैस्तत्र तस्याननुमीयमानत्वात् , स्वर्गापूर्वादिप्रसाधकमपि वा तद् लौकिकं भवेत् । अथोक्तं प्राकाष्ठपिष्टप्रभृतिषु प्रत्येकमप्रतीयमानाऽपि मदशक्तिः समुदायदशायां यथाभिव्यज्यते , तथा कायाकारे चैतन्यमपीति चेत् । तदसत्यम् । यतः फेयं मदशक्तिर्नाम ?। वस्तुस्वरूपमेव, अतीन्द्रिया वा काचित्। न प्राच्यः पक्षः, काष्टपिष्टादिवस्तुस्वरूपस्यासमुदायदशायामपि सत्त्वेन तदानीमपि मदशक्तरभिव्यक्तिप्रसक्तेः । अतीन्द्रियायास्तु तस्यास्तदानीमन्यदा वा न ते स्वीकारः सुन्दरः, प्रत्यक्षातिरिक्तप्रमाणस्य तत्साधकस्य भवतोऽभावात्। जैनैस्तदानीं स्वीकृतैव तावदियम् , समुदायदशायामभिव्यक्ति स्वीकारादिति चेत् । तदसत् , तस्यास्तदानीं तैरुत्पाद्यत्वेन स्वीकारात्, १८

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290