Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 216
________________ ११२ प्रमाणनयतत्त्वालोकालङ्कारःमन्यथानुपपत्तेः संदिह्यमानत्वादनैकान्तिकतां स्वीकुरुते । एवं वह्निमानयं पर्वतनितम्बः पाण्डुद्रव्योपेतत्वादित्याद्यप्युदाहार्यम् ॥ ५६ ॥ अथ द्वितीयभेदमुदाहरन्तिसन्दिग्धविपक्षवृत्तिको यथा-विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥ ५७ ॥ . वक्तृत्वं हि विपक्षे सर्वज्ञे सन्दिग्धवृत्तिकम् ; सर्वज्ञः किं वक्ता आहोस्विन्न वक्ता ? इति संदेहात् । एवंस श्यामो मैत्रपुत्रत्वादित्याद्यप्युदाहरणीयम् । सोपाधिरयमिति नैयायिकाः। उपाधिः खल्वत्र शाकाद्याहारपरिणामः,साधनाव्यापकत्वे सति साध्येन समव्याप्तिकत्वात् । साधनव्यापकःखलूपाधिन भवति । अन्यथा वह्निसंबन्धोऽपि धूमस्य सोपाधिः स्यात् ,आर्दैन्धनसंबन्धस्य तथाभूतस्य संभवात्। ननु शाकाद्याहारपरिणामोऽपि मैत्रपुत्रत्वाख्यसाधनस्य व्यापक एव; तमन्तरेणाऽस्य हेतोः कचिददर्शनात् । परिदृश्यमानकतिपयतत्पुत्रेषु तद्भाव एव तद्भावादिति चेत। नैवम्। कचित्तद्भावभावित्वावलोकनेऽपि सर्वत्र मैत्रपुत्रताशाकाद्याहारपरिणामसमन्वितैवेति निर्णेतुमशक्तेः । तत्संबन्धस्यापिसोपाधिकत्वात् । श्यामत्वरूपस्योपाधेर्विद्यमानत्वात् । मैत्रपुत्रोऽपि हि स एव शाकाद्याहारपरिणतिमान् यः श्याम इति; साधनाव्यापकोऽपि यः साध्यस्याप्यव्यापको नासावुपाधिः । यथा-धूमानुमाने खादिरत्वम् । तद्धि यथा-धूमस्य, एवं वह्वेरप्यव्यापकमेवेति नोपाधिः । अप्रयोजकोऽयं हेत्वाभास इत्यपरे । परप्रयुक्तव्याप्त्युपजीवी हि हेतुरप्रयोजकः; परश्चोपाधिः स चात्रास्तीति । न चैवमपि नामभेदे कश्चिद्दोषः, सन्दिग्धविपक्षवृत्तिकत्वानतिक्रमात् । ये तु पक्षसपक्षविपक्षव्यापकादयोऽ नैकान्तिकभेदास्तेऽस्यैव प्रपञ्चभूताः । तथाहि- पक्षसपक्षविपक्षव्यापको यथा-अनित्यः शब्दः प्रमेयत्वात् । अयं पक्षे शब्दे सपक्षे घटादौ विपक्षे व्योमादौ चास्ति । १। पक्षव्यापकः . सपक्षविपझैकदेशवृत्तिर्यथा-अनित्यः शब्दः प्रत्यक्षत्वात् । अस्मदादीन्द्रियग्रह

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290