Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 213
________________ रत्नाकरावतारिकायुक्तः। १०९ ङ्गोपन्यासेन ? प्रागेवायमेवोपन्यस्यताम् । निश्चयाङ्गमेव हि ब्रुवाणो वादी वादिनामवधेयवचनो भवतीति चेत् । मैवम् । मौलहेतुपरिकरत्वादस्य। अवश्यमेव हि प्रसङ्गं कुर्वतोऽर्थः कश्चिन्निश्वाययितुमिष्टो, निश्चयश्च सिद्धहेतुनिमित्त इति यस्तत्र सिद्धो हेतुरिष्टस्तस्य व्याप्यव्यापकभावसाधने प्रकारान्तरमेवैतत् । यत्सर्वथै तन्नानेकत्र वर्त्तत इति व्याप्तिदर्शनमात्रमपि हि बाधकं विरुद्धधर्माध्यासमाक्षिपतीत्यन्योऽयं साधनप्रकारः । एवं च नान्यतरासिद्धस्य कस्यापि गमकत्वमिति॥५१।। अधुना विरुद्धलक्षणमाचक्षतेसाध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥ ५२ ॥ यदा केनचित् साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदाऽसौ विरुद्धो हेत्वाभासः ॥ ५२ ॥ अत्रोदाहरणम्यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञाना दिमत्त्वात् ॥ ५३ ॥ आदिशब्दात् स्मरणप्रमाणतदाभासादिग्रहः । अयं च हेतुः प्राचि, साध्ये साङ्ख्यादिभिराख्यातः। स्थिरैकवरूपपुरुषसाध्यविपरीतपरिणामिपुरुषेणैव व्याप्तत्वाद्विरुद्धः । तथाहि-यद्येष पुरुषः स्थिरैकस्वरूप एव, तदा सुषुप्ताद्यवस्थायामिव बाह्यार्थग्रहणादिरूपेण प्रवृत्त्यभावात् प्रत्यभिज्ञानादयः कदाचिन्न स्युः; तद्भावे वा स्थिरैकरूपत्वहानिः। अवस्थाभेदादयं व्यवहारः । इत्यप्ययुक्तम् । तासामवस्थातुर्व्यतिरेकाव्यतिरेकविकल्पानुपपत्तेः । व्यतिरेके तास्तस्येति संबन्धाभावः; अव्यतिरेके पुनरवस्थातैवेति तदवस्थस्तदभावः । कथं च तदेकान्तैक्ये अवस्थाभेदोऽपि भवेत्। तथैकान्तानित्यत्वेऽपि साध्ये सौगतेन क्रियमाणेऽयं हेतुर्विरुद्धः; परिणामिपुरुषेणैव व्याप्तत्वात् । तथाहि-अत्यन्तोच्छेदध

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290