Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 380
________________ न्यायावतार ३३८10 श्रीसिद्धसेनदिवाकरसूरिविरचितसूत्रानुसारिणी सूरिपुरन्दरश्रीहरिभद्रसूरिकृतावचूरिरुपा न्यायावतारहारिभद्री ॥ आदिवाक्यम् - प्रमाणव्युत्पादनार्थमिदमारभ्यते ।। हारिभद्री - प्रमाणेत्यादि, अनेन च तादात्म्यतदुत्पत्तिलक्षणसंबन्धविकलतया ध्वनेर्बहिरर्थं प्रति प्रामाण्यायोगादभिधेयादिसूचनद्वारोत्पन्नसंशयमुखेन श्रोतारः श्रवणं प्रति प्रोत्साह्यन्त इति धर्मोत्तरो मन्यते । तदयुक्तम्, यदि हि शब्दस्यार्थप्रकाशनं प्रति सामर्थ्यं नास्ति तत्कथमसावभिधेयादिं सूचयति। __ अर्घटस्त्वाह न श्रावकोत्साहकमेतत्प्रामाण्याभावात् । किन्तु प्रकरणार्थकथनावसरोपस्थितपरोपन्यस्तहेत्वसिद्धतोद्भाव्यते इति । तदयुक्ततरम्, यदीदमप्रमाणं सदभिधेयादीनि साक्षाल्लक्षयन्न प्रवर्तते, तत्कथं परोपन्यस्तहेत्वसिद्धतां कथयति । तस्मादिदं प्रमाणभूतं सदभिधेयादीनि साक्षाल्लक्षयत्प्रेक्षावतः प्रवर्तयति इति प्रकरणादावुपन्यस्तम् । तत्राभिधेयं वाच्यम् । तच्चेह प्रमाणम्, तस्यैव प्रकरणेन प्रतिपाद्यत्वात् । तत् प्रमाणेत्यवयवेन लक्षयति । प्रयोजनं द्वेधा श्रोतुः कर्तुश्च । पुनरपि द्विविधमनन्तरं व्यवहितं च । तत्र श्रोतुरनन्तरं तत्प्रमाणविषया व्युत्पत्तिः, कर्तुः व्युत्पाद्यमानस्य प्राज्ञत्वात्शिष्यस्य व्युत्पादनम् । तत्रात्मप्रयोजनं दर्शयन्नारभ्यते इत्यस्य मयेति पदसापेक्षत्वात्, शिष्यप्रयोजनं तु व्युत्पदित्यनेनोपसर्गधातुसमुदायेनैव तदंतर्गतं लप्स्यते इत्यभिप्रायवान् कर्तात्मव्यापारं णिजन्तेन निर्दर्शयति प्रमाणव्युत्पादनार्थमिति । व्यवहितप्रयोजनं तु द्वेधा व्यावहारिकं पारमार्थिकं च । व्यावहारिकं हेयोपादेयोपेक्षणीयेष्वर्थेषु हानोपादानोपेक्षालक्षणम् । पारमार्थिकमभ्युदयनिःश्रेयसावाप्तिरिति । एतत् साक्षादनुक्तमप्यनन्तरप्रयोजनफलत्वात् तद्वचनेनैवाक्षिप्तमवगन्तव्यम् । सम्बन्धस्तूपायोपेयलक्षणः । अधुनाक्षरार्थः - येनार्थं परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रवर्तन्ते प्रमातारस्तदेवेह ज्ञानमात्मना सह धर्मिरुपतया तादात्म्येऽपि धर्मरुपतया व्यतिरिक्तं प्रमीयतेऽनेनेति प्रमाणम्, तस्य व्युत्पादनं परपरिकल्पितलक्षणादिव्युदासेन स्वाभिप्रेतलक्षणादिस्वरूपप्रकाशनम् । तदर्थमर्थशब्दः प्रयोजनपर्यायः, इदमित्यर्थरूपतया स्वचेतसि वर्तमानं बहिःशब्दरूपतयाऽऽरभ्यते इति वाक्यादिरचनया क्रियते । प्रमाणं प्रति लक्षणादिषु विप्रतिपद्यन्ते परे । लक्षणे, प्रमाणमविसंवादिज्ञानमिति सौगताः | Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408