Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
न्यायावतार
.३४५ प्रत्यक्षं साक्षात्कारिसंवेदनमादिशब्दादनुमानस्ववचनलोका गृह्यन्ते तैरनिराकृतोऽबाधितः पक्ष इति सण्टङ्कः | ___ स दृष्टव्यो, न च दर्शनीय इति यो मन्यते तं प्रत्याह - तस्य पक्षस्य प्रयोगोऽभिधानमत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः । कुतः हेतोः पूर्वोक्तस्वरूपस्य गोचरः दीपक इति । हेत्वर्थतृतीयाद्या इति वचनाद्विषयसंदर्शकत्वादित्यर्थः ।
अयमभिप्रायः - न हि सर्वत्र प्रतिवादिनः प्रक्रमादेव निर्णीतपक्षस्य कूर्चशोभापुरस्सरं हेतुरूपन्यस्यते, अपितु क्वचित् कथंचित् ।।१४।।
ततो यदाद्यापि पक्षार्थं न जानीते, तदा हेतावुपन्यस्ते विषयव्यामोहाद् भ्रान्तिलक्षणो दोषः स्यादित्याह -
अन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः ।
प्रत्याय्यस्य भवेद्धेतुर्विरुद्धारेकितो यथा ।। १५ ।। हारिभद्री - अन्यथेत्यादि, अन्यथेत्युक्तवैपरीत्ये पक्षप्रयोगाकरणे इति । वादिनो हेतूपन्यासकर्तुरभिप्रेतोऽभिमतः स चासौ हेतुगोचरश्च, तत्र मुह्यति दोलायते तच्छीलश्च यः, तस्य प्रत्याय्यस्य प्रतिवादिनो हेतुः विरुद्धारेकितो भवेद् विरोधशङ्काकलङ्कित इत्यर्थः । ततश्च सम्यग्हेतावपि विपक्ष एवायं वर्तते इति व्यामोहाद्विरुद्धदूषणमभिदधते ।। १५ ।। अमुमेवार्थं दृष्टान्तेनाह यथेतिपूर्वश्लोके तदुपन्यासार्थः -
___धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः |
धानुष्कस्य विना, लक्ष्यनिर्देशेन गुणेतरौ ।। १६ ।। हारिभद्री - धानुष्केत्यादि, यथा लक्ष्यनिर्देशं विना धानुष्कस्येषु प्रक्षिपतो यौ गुणदोषौ तौ तद्दर्शिजनस्य विपर्यस्तावपि प्रतिभातः, गुणोऽपि दोषतया दोषोऽपि गुणतया । तथा पक्षनिर्देशं विना हेतुमुपन्यस्यतो वादिनो यौ स्वाभिप्रेतसाध्यसाधनसामर्थ्यासामर्थ्यलक्षणौ गुणदोषौ प्राश्निकप्रतिवाद्यादीनां विपरीतावपि प्रतिभात इति भावार्थः । अक्षरार्थस्तु धनुषा चरति धानुष्कस्तस्य गुणो लक्ष्यवेधप्रावीण्यलक्षणः तत्संप्रेक्षिजनस्य संप्रेक्षणशीलस्य परिविध्यतो यथा कथंचित् बाणं मुञ्चत इत्यर्थः, धानुष्कस्य चापधरस्य विना लक्ष्यनिर्देशेन वेध्यनिष्टङ्कनमृते गुणेतरौ तौ ||१६||
अथ हेतुस्वरूपं निरूपयति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408