Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
३५१
न्यायावतार 10 अधुना पारमार्थिकप्रत्यक्षं लक्षयति -
सकलावरणमुक्तात्म केवलं यत्प्रकाशते ।
प्रत्यक्षं सकलार्थात्मसततप्रतिभासनम् ।। २७ ।। हारिभद्री - सकलेत्यादि, सकलं समस्तमावृणोत्याव्रियते वा अनेनेत्यावरणम्, तत्स्वरूपप्रच्छादनं कर्मेत्यर्थः, सकलं च तदावरणं च सकलावरणं तेन मुक्तो रहितः आत्मा स्वरूपं यस्य तत्तथा, अत एव केवलमसहायम्, सामस्त्येन पुनरावरणनिर्दलने विबन्धककारणवैकल्यादेकाकारतयैव तस्य विवर्तनात्, अतो ज्ञानान्तरनिरपेक्षं यत् प्रकाशते प्रथते, तत्परमार्थतः प्रत्यक्षम् । तदिदं सकलेत्यादिहेतुद्वारेण तथा केवलमिति स्वरूपतो निरूप्याधुना कार्यद्वारेण निरूपयति - सकलार्थात्मनां समस्तवस्तुस्वरूपाणां सततप्रतिभासनम् अनवरतप्रकाशनं सकलात्मप्रतिभासनम्, प्रतिभास्यतेऽनेनेति प्रतिभासनम् । अस्य च पारमार्थिकत्वम्, निरुपचरितशब्दार्थोपपत्तेः । तथाहि - अक्षशब्दो जीवपर्यायस्ततश्चाक्षं प्रति वर्तते इति प्रत्यक्षम्, यत्रात्मनः साक्षाद् व्यापारः, व्यावहारिक पुनरिन्द्रियव्यवहितात्मव्यापारसंपाद्यत्वात् परमार्थतः परोक्षमेव ।
ननु लक्षणमेवाभिधाय स्वरूपं न साधितमिति कोऽभिप्राय इति । अत्रोच्यते - ये मिथ्याबुद्धयोऽदः प्रति विप्रतिपद्यन्ते, तेषां मिथ्याधीकृतबुद्धित्वादवधारणीयतामनेन दर्शयति । किमस्य प्रतिपादकं प्रमाणमिति चेत्, एते ब्रूमः - समस्ति समस्तवस्तुगोचरं विशददर्शनम्, तद्गोचराऽनुमानप्रवृत्तेः । इह यदेवं तदेवं, यथा चित्रभानोः । प्रवर्तते च सकलार्थविषयमनुमानम्, अतस्तदवलोकिना विशददर्शनेनापि भाव्यम् ।
सर्वार्थविषयकं किमनुमानमिति चेत् । उच्यते - इह यदस्ति तत्सर्वं स्थित्युदयापवर्गमनुभवति, वस्तुत्वात्, यद्वस्तु तत्स्थेमजन्मप्रलयैः क्रोडीकृतम् । तद्यथा - अङ्गुलिरङ्गुलित्ववक्रत्वर्जुत्वापेक्षया, वस्तु च तदस्ति, अतः प्रस्तुतत्रयाक्रान्तमित्यनुमानम् । इदमेवानुमानं ज्ञानक्रियाभ्यासातिशयानिखिलावरणविच्छेदे विबन्धककारणाभावाद् विशददर्शनीभवति ।। २७ ।। इदानीं क्रमप्राप्तां गोचरविप्रतिपत्तिं बहुवक्तव्यत्वादनिराकृत्य तावत्फलविप्रतिपत्तिं निराचिर्कीषुराह
प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् ।
केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ।। २८ ।। हारिभद्री - प्रमाणस्येत्यादि, द्विविधं हि प्रमाणस्य फलम्-साक्षादसाक्षाच्च, तत्र साक्षादज्ञानमनध्यवसायः प्रमेयापरिच्छित्तिस्तस्य विनिवर्तनं विशेषेण प्रलयापादनं प्रमाणस्य फलम्, अज्ञानोद्दलनद्वारेण तस्य प्रवृत्तेः, तस्य च सर्वानर्थमूलतया प्रमात्रपकारित्वात् तन्निवर्तनस्य प्रयोजनता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408