Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 399
________________ ३५७ न्यायावतार 10 ||२२|| ||२३|| ||२४।। ||२५|| ।२६।। ||२७|| तत्रेन्द्रियजमध्यक्षमेकांशव्यवसायकम् । वेदनं च परोक्षं च योगजं तु तदन्यथा द्रव्यपर्यायसामान्यविशेषास्तस्य गोचराः। अविस्पष्टास्तयेव स्युरनध्यक्षस्य गोचराः न जडस्यावभासोऽस्ति भेदाभेदविकल्पनात् । न भिन्नविषयं ज्ञानं शून्यं वा यदि वा ततः ज्ञानशून्यवतो नास्ति निरासेऽर्थस्य साधनम् । संवित्सिद्धिप्रतिक्षेपे कथं स्यात् तद्यवस्थितिः पर्ययस्यन्ति पर्याया द्रव्यं द्रवति सर्वदा । सदृशः परिणामो यः तत् सामान्यं द्विधा स्थितम् विपरीतो विशेषश्च तान्युगपद् व्यवस्यति। तेन तत्कल्पनाज्ञानं न तु शब्दार्थयोजनात् निरंशपरमाणूनामभासे स्थौल्यवेदने । प्रत्यक्षं कल्पनायुक्तं प्रत्यक्षेणैव सिध्यति नासंयुक्तैर्न संयुक्तैर्निरंशैः क्रियते महत् । अयोगे प्रतिभासोऽपि संयोगेऽप्यणुमात्रकम् भिन्नदेशस्वरूपाणामणूनामग्रहे सति। तत्स्थौल्यं यदि कल्पेत नावभासेत किंचन नैतदस्ति यतो नास्ति स्थौल्यमेकान्ततस्ततः । भिन्नमस्ति समानं तु रूपमंशेन केनचित् अथास्तु युगपद्भासो द्रव्य-पर्याययोः स्फुटम् । तथापि कल्पना नैषा शब्दोल्लेखविवर्जिता चकास्ति योजितं यत्र सोपाधिकमनेकधा । वस्तु तत् कल्पनाज्ञानं निरंशाप्रतिभासने भेदज्ञानात् प्रतीयन्ते यथा भेदाः परिस्फुटम् । तथैवाभेदविज्ञानादभेदस्य व्यवस्थितिः ||२८।। ||२९|| ।।३०।। ||३१।। ||३२|| ||३३|| ||३४|| Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408