Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 397
________________ 0/३५५ न्यायावतार 10 श्रीशान्त्याचार्यविरचितं न्यायावतारसूत्रवार्तिकम्।। ||१|| ||२|| ।।३।। १. सामान्यलक्षणपरिच्छेदः | नमः सर्वज्ञाय। हिताहितार्थसंप्राप्ति-त्यागयोर्यन्निबन्धनम् । तत् प्रमाणं प्रवक्ष्यामि सिद्धसेनार्कसूत्रितम् प्रमाणं खपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ।। इति शास्त्रार्थसंग्रहः।। सन्निकर्षादिकं नैव प्रमाणं तदसंभवात् । अवभासो व्यवसायो न तु ग्रहणमात्रकम् दीपवन्नोपपद्येत बाह्यवस्तुप्रकाशकम् । अनात्मवेदने ज्ञाने जगदान्ध्यं प्रसज्यते प्रत्यक्षं च परोक्षं च ग्राहकं नोपपत्तिमत् । बाधनात् संशयाद्यासे सूक्तं सामान्यलक्षणम् वेदेश्वरादयो नैव प्रमाणं बाधसंभवात्। प्रमाणं बाधवैकल्पादहस्तत्त्वार्थवेदनः वचसोऽपौरुषेयत्वं नाऽविशेषात् पटादिवत् । स्वरूपेण विशेषेण न सिद्धं भूधरादिषु विरुद्धं चेष्टघातेन न कार्यं कर्तृसाधनम् । प्रकृतेरन्तरज्ञानं पुंसो नित्यमथाऽन्यथा नित्यत्वे सर्वदा मोक्षोऽनित्यत्वे न तदुद्भवः । कालवैपुल्ययोग्यत्वकुशलाभ्याससंभवे ||४|| ||५|| ||६|| |७|| ||८|| ।।९।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408