Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 395
________________ ३५३ न्यायावतार 10 तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेप्याद्यनयचतुष्ट्येऽन्तर्भवति, तत्रापि ये परस्परविशकलितौ सामान्यविशेषाविच्छन्ति तत्समुदायरूपो नैगमः । ये पुनः केवलं सामान्य वाञ्छन्ति तत्समूहसंपाद्यः संग्रहः । ये पुनरनपेक्षितशास्त्रीयसामान्यविशेषं लोकव्यवहारमवतरन्तं घटादिकं पदार्थमभिप्रेयन्ति तन्निचयजन्यो व्यवहारः । ये तु क्षणक्षयिलक्षणा विशेषाः सत्या इति तत्संघातघटित ऋजुसूत्रः | तथा ये रूढितः शब्दानां प्रवृत्तिं वाञ्छन्ति तन्निवहसाध्यः शब्दः । ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्तिं वाञ्छन्ति नान्यथा, तद्द्वारजन्यः समभिरूढः इति । ये तु वर्तमानकालभाविव्युत्पत्तिनिमित्तमधिकृत्य शब्दाः प्रवर्तन्ते नान्यथेति मन्यन्ते, तत्संघटितः खल्वेवंभूतः । तदेवं न कश्चिद्विकल्पोऽस्ति वस्तुगोचरो योऽत्र नयसप्तके नान्तर्यातीति सर्वाभिप्रायसंग्राहका एत । तत्र गमनं गमः परिच्छेदः, निश्चितो गमो निगमो विविक्तवस्तुग्रहणं, स एव नैगमः प्रज्ञादित्वात्सिद्धम् । यदि वा, निगम्यन्ते नियतं परिच्छिद्यन्ते इति निगमाः अस्तेिषु भवो योऽभिप्रायो नियतपरिच्छेदः स नैगमः | सङ्गृह्णाति अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया जगदादत्ते इति संग्रहः । व्यवहरणं व्यवह्रियते वाऽनेन लौकिकैरभिप्रायेणेति व्यवहारः । ऋजु प्रगुणमकुटिलमतीतानागतवक्रपरित्यागाद्वर्तमानक्षणविवर्तिवस्तुनो रूपं सूत्रयति निष्टङ्कितं दर्शयतीति ऋजुसूत्रः । शब्द्यते आहूयतेऽनेनाभिप्रायेणार्थ इति शब्दः । समेकीभावेनाभिरोहति व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ योऽभिप्रायः स समभिरूढः । एवंशब्दः प्रकारवचनः, ततश्चैवं यथा व्युत्पादितः तं प्रकारं भूतः प्राप्तो यः शब्दः स एवंभूतः, तत्समर्थनप्रधानोऽभिप्रायोऽप्येवंभूतः, तद्विषयत्वात्, विषयशब्देन विषयिणोऽभिधानात् ।। २९ ।। अधुना सिद्धान्तोक्तेन नयस्वरूपं द्रढयति - ___नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नि । संपूर्णार्थविनिश्चायि स्याद्वादश्रुतमुच्यते ।। ३० ।। हारिभद्री - नयेत्यादि, इह त्रिविधं श्रुतम्, तद्यथा - मिथ्याश्रुतम्, नयश्रुतम्, स्याद्वादश्रुतञ्च । [श्रूयते इति श्रुतमागमः, मिथ्या अलीकं श्रुतम् मिथ्याश्रुतम्, नयैर्हेतुभूतैः श्रुतं नयश्रुतम्, निर्दिश्चमानधर्मव्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्याता युक्तो वादः स्याद्वादः, तदात्मकं श्रुतं स्याद्वादश्रुतम् । तत् किंभूतमुच्यते इत्याह-] संपूर्णोऽविकलः स चासावर्थश्च तद्विनिश्चायि तन्निर्णयहेतुत्वादेवमभिधीयते, परमार्थतः पुनः समस्तवस्तुप्रतिपादीत्यर्थः । नयश्रुतं कस्मादेवंभूतं नेत्याह - नयानां नैगमादीनामेकधर्मग्रहणपर्यवसितानां श्रुतवम॑नि आगममार्गे प्रवृत्तेः प्रवर्तनात् न ताव[त ?]देकैकाभिप्रायप्रतिबद्धं संपूर्णार्थविनिश्चायि ।। ३० ।। तदेवं नयस्वरूपं प्ररूप्य संप्रति प्रमातारमाह - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408