Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
३५४०
न्यायावतार
प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् ।
स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः || ३१ ।। हारिभद्री - तत्र त्रिकालजीवनाज्जीव, प्राणधारक आत्मेत्यर्थः, प्रमिणोतीति प्रमाताऽर्थपरिच्छेदकः । किंभूतः सन्नित्याह - स्वान्यौ आत्मपरौ निर्भासयितुं उद्दयोतयितुं शीलमस्येति स्वान्यनिर्भासी, स्वरूपार्थयोः प्रकाशकः । तथा करोतीति कर्ता, भुङ्क्ते इति भोक्ता । विवर्तनमपरापरपर्यायेषु गमनं विवृत्तिः, सा विद्यते यस्येति विवृत्तिमान् । स्व आत्मा संवेद्यतेऽनेनेति स्वसंवेदनं तेन सम्यक् सिद्धः प्रतिष्ठितः प्रतीतो वा स्वसंवेदनसंसिद्धः। क्षितिः पृथिव्यादिर्येषां तानि क्षित्यादीनि, आदिशब्दादम्बुतेजोवाय्वाकाशानि गृह्यन्ते । न विद्यते आत्मा स्वरूपमस्येत्यनात्मकः, किं स्वस्वरूपापेक्षया ? न, क्षित्यादीनामनात्मकः क्षित्यादिस्वरूपो न भवतीत्यर्थः ।
तत्र 'जीवः प्रमाता' इत्यनेन ये पारमार्थिकं प्रमातारं नाभ्युपगच्छन्ति सौगताः तान्निराचष्टे । 'स्वान्यनिर्भासी' इत्यनेन प्राग्वत् मीमांसकान् परोक्षबुद्धिवादिनो योगाचारांश्च प्रतिक्षिपति । 'कर्ता भोक्ता' इत्यनेन सांख्यमतं विकुट्टयति । 'विवृत्तिमान्' इत्यमुना तु नैयायिकाद्यभिमतैकान्तनित्यापरिणामिप्रमातृप्रतिक्षेपः । पाश्चात्यार्द्धन चार्वाककल्पितं पंचभूताव्यतिरेकिणं प्रमातारं निराकुरुते ।। ३१ ।। सांप्रतं पर्यन्तश्लोकेनोपसंहरन्नाह -
प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका ।
सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिताः ।। ३२ ।। हारिभद्री - प्रमाणानि प्रत्यक्षादीनि, आदिशब्दात् नयपरिग्रहस्तेषां व्यवस्था प्रतिनियतलक्षणादिरूपा मर्यादा, सेयमनादिनिधनात्मिका, सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता संशब्दिता । आदिः प्रभवः, निधनं पर्यन्तः, न विद्यते आदिनिधने यस्यासौ तथाविध आत्मा स्वरूपमस्य सा अनादिनिधनात्मिका । सर्वसंव्यवहर्तृणां लोकिकतीर्थिकादिभेदभिन्नसमस्तव्यवहारवतां प्रसिद्धाऽपि प्ररूढाऽपीत्यर्थः ।। ३२ ।।
चार्वाकोऽध्यक्षमेकं, सुगतकणभुजौ सानुमानं, सशाब्दं तद्वैतं पारमर्षः, सहितमुपमया तत्त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृद् वदति, स निखिलं मन्यते भट्ट एतत् साभावं, द्रे प्रमाणे जिनपतिसमये स्पष्टोऽस्पष्टश्च ।।
इति प्रमाणकाव्यम् ।। इति न्यायावतारसूत्रस्य श्रीहरिभद्रसूरिकृतावचूरिः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408