Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 407
________________ (पूज्यश्रीसिद्धसेनदिवाकरसूरिस्तुतयः कवयः सिद्धसेनाद्या वयं तु कवयो मताः । मणय : पद्मरागाद्या ननु काचोपि मेचकः ॥ ३९ ॥ प्रवादि-करियूथानां केशरी नयकेशरः । सिद्धसेनकविर्जीयाद्विकल्प-नखरांकुरः ॥ ४० ॥ - भगवज्जिनसेनकृत आदिपुराण प्र. पर्व. जगत्प्रसिद्धबोधस्य वृषभस्येव निस्तुषाः । बोधयन्ति सतां बुद्धिं सिद्धसेनस्य सूक्तयः ॥ ३० ॥ - श्रीजिनसेनाचार्यकृत हरिवंशपुराण यदुक्तकल्पलतिकां सिञ्चन्तः करुणामृतैः । कवयः सिद्धसेनाद्या वर्धयन्तु हृदि स्थिताः ॥ श्रीकल्याणकीर्तिकृत यशोधरचरित्र आयरियसिद्धसेणेण, सम्मइए पइट्ठिअजसेण । दूसमणिसादिवागर-कप्पत्तणओ तदक्खेणं ॥ १०४८ ॥ -श्रीहरिभद्रसूरिकृत पंचवस्तुक क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा। तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न शोच्यः ॥ - श्रीहेमचन्द्राचार्यकृत अयोगव्यवच्छेदिका Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408