Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
न्यायावतार
युक्तैव, एतच्चानन्तरप्रयोजनं सर्वज्ञानामेकरूपत्वात् सामान्येनोक्तम् ।
व्यवहितप्रयोजनं विभागेनाह - केवलस्य सर्वज्ञज्ञानस्य सुखं वैषयिकसुखातीतपरमाह्लादानुभवः, उपेक्षा साक्षात् समस्तार्थानुभवेऽपि हानोपादानेच्छाभावान्मध्यस्थवृत्तिता, ते सुखोपेक्षे फलमित्यर्थः। शेषस्य तद्व्यतिरिक्तप्राकृतलोकप्रमाणस्यादानं ग्रहणं हानं परित्यागस्तयोर्धर्बुद्धिरादानहानधीः सा फलं इति यावत् ।। २८ ।।
अधुना गोचरविप्रतिपत्तिं निराचष्टे -
३५२
अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ।।२९।।
हारिभद्री - अनेकत्यादि, अनेके बहवोऽन्ता अंशा धर्मा वा आत्मनः स्वरूपाणि यस्य तदनेकान्तात्मकम् । किं तत् ? वस्तु बहिरन्तश्च, गोचरो विषयः सर्वसंविदां सर्वज्ञानानामनेकान्तमन्तरेण संवेदनप्रसरस्य व्यवच्छेदात्, भ्रान्तसंवेदनानामप्यनेकान्तोद्योतनपटिष्ठतया प्रवृत्तेः, केवलं केषुचिदंशेषु विसंवादकत्वादप्रमाणानि । तदयमभिप्रायः - यदा संवेदनसामान्यमप्यनेकान्तमन्तरेण न प्रवर्तते, तदा तद्विशेषणभूतं प्रमाणं एकान्ते वर्तिष्यते इति दूरापास्तमेव, तथाप्यनादिमिथ्याभिनिवेशा बहवोऽत्र विप्रतिपद्यन्ते इति सर्वप्रमाणानामनेकान्तविषयत्वसाधकं प्रमाणमेतत् । यत्प्रमाणं तत्परस्पराविनिर्लुठितानेकधर्माध्यासितवस्तुनो ग्राहकम्, तस्यैव तत्र प्रतिभासात्, यद्यत्र प्रतिभाति तदेव तद्गोचरतयाऽभ्युपगन्तव्यम्। तद्यथा-निरादीनवनयनप्रभवदर्शने प्रतिभासमानं पाटलया जपापुष्पम् ।।
-
अथ नयस्वरूपं प्ररूपयति - एकेत्यादि, अनन्तधर्माध्यसितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनमिति नयः, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्शः । तस्य विषयः नयस्य गोचरो मतोऽभिप्रेत एकदेशेनानित्यत्वादिधर्मलक्षणेन विशिष्टः पररूपेभ्यो व्यवच्छिन्नोऽर्थः प्रमेयरूपः, प्रमाणमेवंविधमेवार्थं गृह्णाति - इति स्वाकूतेन तेन व्यवस्थापनात् । प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नय इति नयलक्षणम्, सर्वनयविशेषानुयायित्वात्पररूपव्यावर्तनक्षमत्वाच्चास्य ।
संख्यया पुनरनन्ता एते, अनन्तधर्मत्वाद्वस्तुनः, तदेकधर्मपर्यायावसिताभिप्रायाणां च नयत्वात्, तथापि चिरन्तनाचार्यैः सर्वसंग्राहिसत्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथा नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नया इत्यतस्त एव वर्ण्यन्ते । कथमेते सर्वाभिप्रायसंग्राहकाः इति चेत्, उच्यते-अभिप्रायस्तावदर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, अर्थश्च सामान्यरूपो विशेषरूपो वा, शब्दोऽपि रूढितो व्युत्पत्तितश्च, व्युत्पत्तिरपि सामान्यनिमित्तप्रयुक्ता तत्कालभाविनिमित्तप्रयुक्ता वा स्यात् ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408