Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
Q.३५९
न्यायावतार10
||४७।।
11४८।।
||४९।।
||५०||
||५१।।
||५२||
||५३||
संबन्धिभ्यां विभिन्नश्चेत् संबन्धः स्यान्न लोष्टवत् । अनवस्था प्रसज्येत तदन्यपरिकल्पने कृतिकोदयपूरादेः कालादिपरिकल्पनात् । यदि स्यात् पक्षधर्मत्वं चाक्षुषत्वं न किं ध्वनौ समानपरिणामस्य द्वयस्य नियमग्रहे। नाशक्तिर्न च वैकल्यं साधनस्य प्रसज्यते इष्टं साधयितुं शक्यं वादिना साध्यमन्यथा । साध्याभासमशक्यत्वात् साधनागोचरत्वतः यथा सर्वगमध्यक्षं बहिरन्तरनात्मकम् । नित्यमेकान्ततः सत्त्वात् धर्मः प्रेत्यासुखप्रदः रूपाद्यसिद्धितोऽसिद्धो विरुद्धोऽनुपपत्तिमान् । साध्याभावं विना हेतुः व्यभिचारी विपक्षगः असिद्धः सिद्धसेनस्य विरुद्धो मल्लवादिनः | द्वेधा समन्तभद्रस्य हेतुरेकान्तसाधने
|| अनुमानपरिच्छेदः ।।
४. आगमपरिच्छेदः । ताप-च्छेद-कषैः शुद्धं वचनं त्वागमं विदुः । तापो ह्याप्तप्रणीतत्वमाप्तो रागादिसंक्षयात् कषः पूर्वापराघातश्छेदो मानसमन्वयः । 'विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम्' ।
। आगमपरिच्छेदः ।। सूत्रं सूत्रकृता कृतं मुकुलितं सद्भरिबीजैर्धनम्, तद्वाचः किल वार्तिकं मृदु मया प्रोक्तं शिशूनां कृते। भानोर्यत्किरणैर्विकासि कमलं नेन्दोः करैस्तत् तथा, यद्वेन्दूदयतो विकासि जलजं भानोर्न तस्मिन् गतिः
[ समाप्तमिदं न्यायावतारसूत्रवार्तिकम्। ]
||५४||
|५५||
11५६।।
||५७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408