Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
न्यायावतार
३४४७ चशब्देनानेकार्थत्वात् दर्शयति - वचनं कुतः प्रत्यक्षमित्याह - प्रतिभासस्य निमित्तत्वात् प्रतिपाद्यप्रत्यक्षप्रकाशहेतुत्वादुपचारेणोच्यत इत्यर्थः ।। १२ ।। अनुमानमाह -
साध्याविनाभुवो हेतोर्वचो यत्प्रतिपादकम् ।
परार्थमनुमानं तत्पक्षादिवचनात्मकम् ।। १३ ।। हारिभद्री - साध्येत्यादि, हिनोति गमयत्यर्थमिति हेतुः तस्य साध्याविनाभुवः प्राङ्निरूपितस्य यद्वचः प्रतिपादकं संदर्शकं तदनुमानप्रकाशहेतुत्वात्परार्थमनुमानं । तत्कीदृशमित्याह - पक्षो वक्ष्यमाणलक्षणः स आदिर्येषां हेतुदृष्टान्तोपनयनिगमनादीनां तानि तथा, तेषां वचनानि प्रतिपादकध्वनयस्तान्येवात्मा स्वरूपं यस्य तत्पक्षादिवचनात्मकम्।
ननु पूर्वं हेतुरूपमेवोक्तं परार्थमनुमानमधुना तु पक्षादिवचनात्मकमिति वदतः पूर्वापरव्याहतार्थवाचोयुक्तिः । न, एवं मन्यते - नैकः प्रकारः परार्थानुमानस्य । किं तर्हि, यथा यथा परस्य सुखेन प्रमेयप्रतीतिर्भवति तथा तथा यत्नतः प्रत्यायनीयः।
तत्र दशावयवं साधनं प्रतिपादनोपायः, तद्यथा - पक्षादयः पञ्च तच्छुद्धयश्च । तत्र यदा प्रतिपाद्यप्रक्रमादेव निर्णीतपक्षोऽविस्मृतदृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमाणो व्युत्पन्नमतित्वाच्छेषावयवाभ्युहनसर्मथश्च भवति, यद्वाऽत्यन्ताभ्यासात्तावतैव प्रमेयमवबुध्यते तदा हेतुरेवोपन्यस्यते, शेषाणां नैरर्थ्यक्यात् ।
यदा त्वनिर्णीतपक्षस्तदाऽकाण्ड एव हेतूपन्यासोऽयुक्तः स्यादिति पक्षोऽप्याख्यायते । अस्मर्यमाणे प्रतिबन्धग्राहिणि प्रमाणे दृष्टान्तोऽपि । स्मृतेऽपि प्रमाणे दार्टीतिके योजयितुमजानानस्योपनयोऽपि । तथापि साकाङ्क्षस्य निगमनम् । तथा यत्र पक्षादौ स्वरूपविप्रतिपत्तिस्तत्र तच्छुद्धिः प्रमाणेन कर्तव्या, इतरथा तेषां स्वसाध्यासाधनात् । सर्वेषां चामीषां साधनावयवत्वम्, प्रतिपाद्यप्रतीत्युपायत्वात् ।। १३ ।। अथ पक्षं लक्ष्यति
साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः ।
तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः ।। १४ ।। हारिभद्री - साध्येत्यादि, पच्यत इति पक्षो व्यक्तीक्रियते इति भावः । किंभूतः 'साध्याभ्युपगमः' साध्यस्याभ्युपगमोऽङ्गीकरणं प्राश्निकानां पुरतः प्रतीज्ञास्वीकारः । पुनः किंरूपः 'प्रत्यक्षाद्यनिराकृतः'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408