Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
३४३
न्यायावतार 10 अत एव दृष्टेन प्रमाणनिर्णितेनेष्टस्य तद्वाच्यस्य विरोधो यस्मिंस्तत्तथा तदेव दृष्टेष्टविरोधकम् । यदि वा, दृष्टः प्रमाणेन, इष्टो वचनान्तरेण, तयोर्विरोधकं यत्, ततोऽन्यददृष्टेष्टविरोधकम्, अबाधितार्थाभिधायीत्यर्थः । तत्त्वं जीवादयः पदार्थास्तेषामुपदेशः स्वरूपप्रकाशनं तं करोतीति । तथाऽत एव सार्वं सर्वस्मै हितं । कुत्सिताः पन्थानः कापथाः तीर्थान्तरीयास्तेषां घट्टनं विचालनम् । ईदृशादेव शास्त्रज्जातं शाब्दं प्रमाणम् ।। ९ ।।। अथ परार्थानुमानप्रस्तावः, पारार्थ्यं हि द्वयोरपि प्रत्यक्षानुमानयोः सामान्येन समर्थयति -
स्वनिश्चयवदन्येषां, निश्चयोत्पादनं बुधैः ।
परार्थं मानमाख्यातं, वाक्यं तदुपचारतः ।। १० ।। हारिभद्री - अत्र परार्थं मानमिति लक्ष्यम्, स्वनिश्चयवदित्यादि लक्षणम्, स्व आत्मा तस्य निश्चयः प्रमेयाधिगमः, तद्वदन्येषां प्रतिपाद्यानां निश्चयोत्पादनं प्रमेयपरिच्छेदकज्ञानप्रादुर्भावनम्, यथात्मनिर्णयस्तथा परेषां ज्ञानजननमिति ।
तद्वाक्यं न ज्ञानम्, कथं जडस्य प्रामाण्यमित्याह - तदुपचारतस्तस्य ज्ञानस्योपचारोऽतद्रूपस्याऽपि तद्रूपत्वेन ग्रहणम् । प्रतिपाद्यगतं प्रतिपादकगतं वा ज्ञानं तत्रोपचर्यते ।। १० ।। ।
सौगतमते निर्विकल्पकं प्रत्यक्षमतो न शब्दजन्यमित्यतोऽनुमानं दृष्टान्तीकृत्य प्रत्यक्षस्यापि परार्थतां समर्थयति -
प्रत्यक्षेणानुमानेन, प्रसिद्धार्थप्रकाशनात् ।
परस्य तदुपायत्वात्, परार्थत्वं द्वयोरपि ।। ११ ।। हारिभद्री - प्रत्यक्षेत्यादि, प्रत्यक्षेणाप्यनुमानेनेव प्रसिद्धार्थप्रकाशनात् स्वप्रतीतप्रमेयप्रत्यायकत्वात्परार्थत्वं प्रतिपाद्यप्रयोजनत्वम्, द्वयोरपि प्रत्यक्षानुमानयोः तुल्यकारणत्वात् । इहापीवशब्दौ लुप्तनिर्दिष्टौ द्रष्टव्यौ, तदर्थावगमनात् । अयमभिप्रायः - यथानुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानं तथा प्रत्यक्षप्रतीतोऽपि, तुल्यत्वात् ।। ११ ।। अथ परार्थस्वरूपमाह -
प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः ।
प्रत्यक्षं प्रतिभासस्य, निमित्तत्वात्तदुच्यते ।। १२ ।। हारिभद्री - प्रत्यक्षेत्यादि, यद्वचः प्रत्यक्षप्रतिपन्नार्थप्रतिपादि साक्षात्कारिज्ञानगोचरकथनचतुरं तत्प्रत्यक्षमुच्यते । तच्च प्रत्यक्षरूपमेवोच्यमानं प्रत्यक्षम् । विप्रतिपन्नं प्रति अनुमानद्वारेणोच्यमानमनुमानमेव ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408