Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 383
________________ 0.३४१ न्यायावतार 10 अथ परोक्षं इतरदित्यादि, प्रत्यक्षादितरदसाक्षात्कारिज्ञानं परोक्षमवगन्तव्यम् । तदपि स्वसंवेदनापेक्षया प्रत्यक्षमेव बहिरर्थापेक्षया परोक्षमिति दर्शयति । ग्रहणेक्षयेति ग्रहणमर्थाद् बहिः प्रवर्त्तनम्, तस्येक्षा पर्यालोच्यता तया । एकरूपमप्येतत्प्रतिपाद्यापेक्षया शाब्दमनुमानं चेति द्विविधम् ।। ४ ।। अथानुमानमनुमानयन्ति साध्याविनाभुनो लिङ्गात्साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं, प्रमाणत्वात्समक्षवत् ।। ५ ।। हारिभद्री - अनुमानमिति लक्ष्यम्, साध्याविनाभुनो लिङ्गात्साध्यनिश्चायकमिति लक्षणम् । लिङ्गग्रहण-साध्याविनाभावित्वलिङ्गसम्बन्धस्मरणकालात्पश्चाद् मीयते परिच्छिद्यतेऽर्थोऽनुमेयपावकादिर्येन तदनुमानमिति ज्ञानम् । तत्किम्भूतम् ? साध्यनिश्चायकमिति साधनमर्हति साधयितुं वा शक्य इति साध्योऽनुमेयः तस्य निश्चायकं तत्स्वरूपनिर्णायकं तत् । कुतो ? लिङ्गात् लिङ्ग्यते गम्यतेऽर्थोऽनेनेति लिङ्गं हेतुः । कीदृग्लिङ्गात् ? 'साध्याविनाभुनो' विना भवतीति विनाभु, ततोऽन्यदविनाभु, साध्यं विमुच्य यन्न भवतीत्यर्थः । तस्मात्साध्यनिश्चायकं ज्ञानमनुमानमिति स्मृतं नीतिविद्भिरिति । तत्र लिङ्गात्साध्यनिश्चायकमित्यनेनास्य प्रत्यक्षलक्षणसंकीर्णतां वारयति | साध्याविनाभुन इत्यनेन तु परप्रणीतलिङ्गलक्षणव्युदासः । तदभ्रान्तमित्यनेन सौगतप्रतिक्षेपः । तदनुमानं भ्राम्यति स्वगोचरे विपर्यस्यतीति भ्रान्तम्, तदन्यदभ्रान्तमिति प्रतिज्ञा, प्रमाणत्वात् अयं हेतुः, संगतमक्षाणामिति समक्षं तदिव तद्वदिति दृष्टान्तः । एतेन सर्वावयवसूचितम् ।। ५ ।। अथ ज्ञानाद्वैतवादी समक्षलक्षणे दृष्टान्तस्य साध्यविकलतां कथयतीति तन्मतविकुट्टनार्थमाह न प्रत्यक्षमपि भ्रान्तं, प्रमाणत्वविनिश्चयात् । भ्रान्तं प्रमाणमित्येतद् विरुद्धं वचनं यतः ।। ६ ।। हारिभद्री - न प्रत्यक्षमपीत्यादि, यद्भवतश्चेतसि वर्त्तते न केवलमनुमानं भ्रान्तं किन्तु प्रत्यक्षमपि दृष्टान्ततयोपात्तं भ्रान्तमेव । सर्वमालम्बने भ्रान्तमिति वचनात्तदेतन्न, कुत इत्याह प्रमाणत्वविनिश्चयादिति, प्रमाणभावनिर्णयादित्यर्थः । भ्रान्तताप्रमाणतयोर्विरोधसाधनेन हेतुमाह भ्रान्तमित्यादि, भ्रान्तं विपर्यस्तमथ च प्रमाणं ग्राह्यपरिच्छेदहेतुरित्येतद्वचनमेवंविधार्थप्रत्यायको ध्वनिर्विरुद्धं, पूर्वापरव्याहतार्थगर्भत्वात् । । ६ ।। अत्रापि तस्यैव शासनम् - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408