Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 381
________________ ३३९ न्यायावतार ७ अनधिगतार्थाधिगन्तृ प्रमाणमिति मीमांसकाः । अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकादयः इत्यादि।। तत्र लक्षणसंख्याविप्रतिपत्ती निराचिकीर्षुराह - प्रमाणं स्वपराभासि, ज्ञानं बाधविवर्जितम्। प्रत्यक्षं च परोक्षं च, द्विधा मेयविनिश्चयात् ।। १ ।। हारिभद्री - प्रमाणमित्यादि, पूर्वार्द्धन लक्षणविप्रतिपत्तिमुत्तरार्द्धन संख्याविप्रतिपत्तिं निराचष्टे । लक्षणं पररूपेभ्यो व्यावर्तनक्षमोऽसाधारणो धर्मो लक्ष्यते लक्ष्यं परिछिद्यतेऽनेनेति । प्रमाणमिति पूर्ववत् स्व आत्मा, परोऽर्थः, तावाभासयितुं शीलं यस्य तत्तथा । ज्ञायते निश्चीयते तत्त्वं येन तज्ज्ञानम् । बाध्यतेऽनेनेति बाधः विपरीतार्थोपस्थापकप्रमाणप्रवृत्तिस्तेन विशेषेण वर्जितं रहितं यत्तत्प्रमाणम्। स्वपराभासीत्यनेन ये स्वाभास्येव ज्ञानं मन्यन्ते ज्ञानवादिनो बौद्धविशेषाः, ये च पराभास्येव मीमांसकादयस्ते निरस्ताः । ज्ञानमित्यनेन तु यन्नैयायिकादिभिः पर्यकल्पि संनिकर्षः प्रमाणमिति तन्निरस्यति, जडत्वात् तस्य ग्राहकत्वायोगात् । बाधविवर्जितमित्यनेन यत्तिमिरादिदोषतः कुशास्त्राध्ययनतो वा ज्ञानं भवति तत्प्रतिक्षिपति । समस्तलक्षणेन तु यत्परोक्तमनधिगतार्थाधिगन्तृ प्रमाणमर्थोपलब्धिहेतुः प्रमाणमिति तन्निरस्थात् ।। अथ तत्संख्या - प्रत्यक्षं चेत्यादि, अक्षमिन्द्रियं प्रतिगतं प्रत्यक्षं यदिन्द्रियमाश्रित्योज्जिहीतेऽर्थसाक्षात्कारि तत् । अक्षेभ्यः परतो वर्तते इति परोक्षमक्षव्यापारनिरपेक्षम् । चशब्दौ प्रत्यक्षपरोक्षयोस्तुल्यकक्षतां लक्षयतः, द्वयोरपि प्रामाण्यं प्रत्यविशेषात्। द्विधैवेत्यनेन परपरिकल्पितसंख्यान्तरं निराचष्टे | तथा यदपि परैरुक्तद्वयातिरिक्तं प्रमाणसंख्यान्तरं प्रत्यज्ञायि, तत्र यत्पर्यालोच्यमानमुपमानार्थापत्तिवत् प्रमाणं, तदनयोरेवान्तर्भावनीयम् । यत्तु नास्कन्दति प्रामाण्यं तन्निरसनीयम्। सूत्रावयवेन प्रकृतनियमकारणमाह - द्विधैवेति काकाक्षिगोलकन्यायेनात्रापि संबन्धनीयम् - मेयविनिश्चयादिति, ततोऽयमों द्वाभ्यामेव प्रकाराभ्यां प्रमेयस्य विनिश्चयात् द्वे एव प्रमाणे। __ अयमभिप्रायः . स्वसंवेदनापेक्षया निखिलज्ञानानामेकरूपत्वेऽपि बहिरर्थं चापेक्ष्य कश्चिच्चक्षुरादिसामग्रीबललब्धसत्ताकः स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्तमलक्षितपरमाणुपारिमाण्डल्यं संनिहितं विशदनिर्भासं सामान्यमाकारं साक्षात्कारकुर्वाणः प्रकाशः प्रथते तत्र प्रत्यक्षव्यवहारः । यश्च लिङ्गशब्दादिद्वारेण नियतानियतसामान्याकारावलोकी परिस्फुटतारहितो बोधः स परोक्षतां स्वीकरोति ।। १ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408