Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 378
________________ न्यायावतार ३३६॥ प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात् परार्थत्वं द्वयोरपि ।। ११ ।। प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्षं प्रतिभासस्य निमित्तत्वात्तदुच्यते ।। १२ ।। साध्याविनाभुवो हेतोर्वचो यत् प्रतिपादकम् । परार्थमनुमानं तत् पक्षादिवचनात्मकम् ।। १३ ।। साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्त्तव्यो हेतोर्गोचरदीपकः || १४ ।। अन्यथा वाद्यभिप्रेतहेतुगोचरमोहितः । प्रत्याय्यस्य भवेद्धेतुर्विरुद्धारेकितो यथा ।। १५ ।। धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः | धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ।। १६ ।। हेतोस्तथोपपत्त्या वा स्यात् प्रयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ।। १७ ।। साधसाधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् । साधर्येण स दृष्टान्तः सम्बन्धस्मरणान्मतः ।। १८ ।। साध्ये निवर्तमाने तु साधनस्याप्यसम्भवः | ख्याप्यते यत्र दृष्टान्तो वैधये॒णेति स स्मृतः ।। १९ ।। अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ।। २० ।। प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽस्ति लिङ्गतः । लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः ।। २१ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408