________________
न्यायावतार
३३६॥
प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात् परार्थत्वं द्वयोरपि ।। ११ ।। प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्षं प्रतिभासस्य निमित्तत्वात्तदुच्यते ।। १२ ।। साध्याविनाभुवो हेतोर्वचो यत् प्रतिपादकम् । परार्थमनुमानं तत् पक्षादिवचनात्मकम् ।। १३ ।। साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्त्तव्यो हेतोर्गोचरदीपकः || १४ ।। अन्यथा वाद्यभिप्रेतहेतुगोचरमोहितः । प्रत्याय्यस्य भवेद्धेतुर्विरुद्धारेकितो यथा ।। १५ ।। धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः | धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ।। १६ ।। हेतोस्तथोपपत्त्या वा स्यात् प्रयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ।। १७ ।। साधसाधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् । साधर्येण स दृष्टान्तः सम्बन्धस्मरणान्मतः ।। १८ ।। साध्ये निवर्तमाने तु साधनस्याप्यसम्भवः | ख्याप्यते यत्र दृष्टान्तो वैधये॒णेति स स्मृतः ।। १९ ।। अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ।। २० ।। प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽस्ति लिङ्गतः । लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः ।। २१ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org