________________
0.३३७
न्यायावतार 10
अन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीतिसन्देहविपर्यासैस्तदाभता ।। २२ ।। असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ।। २३ ।। साधर्म्यणात्र दृष्टान्तदोषा न्यायविदीरिताः । अपलक्षणहेतूत्थाः साध्यादिविकलादयः ।। २४ ।। वैधhणात्र दृष्टान्तदोषा न्यायविदीरिताः । साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ।। २५ ।। वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् । दूषणं निरवद्ये तु दूषणाभासनामकम् ।। २६ ।। सकलावरणमुक्तात्म केवलं यत् प्रकाशते । प्रत्यक्षं सकलार्थात्मसततप्रतिभासनम् ।। २७ ।। प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ।। २८ ।। अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् ।। एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ।। २९ ।। नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नि । सम्पूर्णार्थविनिश्चायि स्याद्वादश्रुतमुच्यते ।। ३० ।। प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ।। ३१ ।। प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका । सर्वसंव्यवहतॄणां प्रसिद्धापि प्रकीर्तिता ।। ३२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org