________________
न्यायावतार
३३८10
श्रीसिद्धसेनदिवाकरसूरिविरचितसूत्रानुसारिणी सूरिपुरन्दरश्रीहरिभद्रसूरिकृतावचूरिरुपा
न्यायावतारहारिभद्री ॥
आदिवाक्यम् - प्रमाणव्युत्पादनार्थमिदमारभ्यते ।।
हारिभद्री - प्रमाणेत्यादि, अनेन च तादात्म्यतदुत्पत्तिलक्षणसंबन्धविकलतया ध्वनेर्बहिरर्थं प्रति प्रामाण्यायोगादभिधेयादिसूचनद्वारोत्पन्नसंशयमुखेन श्रोतारः श्रवणं प्रति प्रोत्साह्यन्त इति धर्मोत्तरो मन्यते । तदयुक्तम्, यदि हि शब्दस्यार्थप्रकाशनं प्रति सामर्थ्यं नास्ति तत्कथमसावभिधेयादिं सूचयति। __ अर्घटस्त्वाह न श्रावकोत्साहकमेतत्प्रामाण्याभावात् । किन्तु प्रकरणार्थकथनावसरोपस्थितपरोपन्यस्तहेत्वसिद्धतोद्भाव्यते इति । तदयुक्ततरम्, यदीदमप्रमाणं सदभिधेयादीनि साक्षाल्लक्षयन्न प्रवर्तते, तत्कथं परोपन्यस्तहेत्वसिद्धतां कथयति । तस्मादिदं प्रमाणभूतं सदभिधेयादीनि साक्षाल्लक्षयत्प्रेक्षावतः प्रवर्तयति इति प्रकरणादावुपन्यस्तम् ।
तत्राभिधेयं वाच्यम् । तच्चेह प्रमाणम्, तस्यैव प्रकरणेन प्रतिपाद्यत्वात् । तत् प्रमाणेत्यवयवेन लक्षयति । प्रयोजनं द्वेधा श्रोतुः कर्तुश्च । पुनरपि द्विविधमनन्तरं व्यवहितं च । तत्र श्रोतुरनन्तरं तत्प्रमाणविषया व्युत्पत्तिः, कर्तुः व्युत्पाद्यमानस्य प्राज्ञत्वात्शिष्यस्य व्युत्पादनम् । तत्रात्मप्रयोजनं दर्शयन्नारभ्यते इत्यस्य मयेति पदसापेक्षत्वात्, शिष्यप्रयोजनं तु व्युत्पदित्यनेनोपसर्गधातुसमुदायेनैव तदंतर्गतं लप्स्यते इत्यभिप्रायवान् कर्तात्मव्यापारं णिजन्तेन निर्दर्शयति प्रमाणव्युत्पादनार्थमिति ।
व्यवहितप्रयोजनं तु द्वेधा व्यावहारिकं पारमार्थिकं च । व्यावहारिकं हेयोपादेयोपेक्षणीयेष्वर्थेषु हानोपादानोपेक्षालक्षणम् । पारमार्थिकमभ्युदयनिःश्रेयसावाप्तिरिति । एतत् साक्षादनुक्तमप्यनन्तरप्रयोजनफलत्वात् तद्वचनेनैवाक्षिप्तमवगन्तव्यम् । सम्बन्धस्तूपायोपेयलक्षणः ।
अधुनाक्षरार्थः - येनार्थं परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रवर्तन्ते प्रमातारस्तदेवेह ज्ञानमात्मना सह धर्मिरुपतया तादात्म्येऽपि धर्मरुपतया व्यतिरिक्तं प्रमीयतेऽनेनेति प्रमाणम्, तस्य व्युत्पादनं परपरिकल्पितलक्षणादिव्युदासेन स्वाभिप्रेतलक्षणादिस्वरूपप्रकाशनम् । तदर्थमर्थशब्दः प्रयोजनपर्यायः, इदमित्यर्थरूपतया स्वचेतसि वर्तमानं बहिःशब्दरूपतयाऽऽरभ्यते इति वाक्यादिरचनया क्रियते ।
प्रमाणं प्रति लक्षणादिषु विप्रतिपद्यन्ते परे । लक्षणे, प्रमाणमविसंवादिज्ञानमिति सौगताः |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org