Book Title: Nyayamanjari Part 01
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 725
________________ 690 नामधेयप्रामाण्यपरीक्षा न्यायमचरी [नामधेयपरत्वे पूर्वोक्तानर्थ न्यशक्कानिरासः] यत्तु नामधेयपक्षे नैरर्थक्यमाशङ्कितं-तदपि न चारु - नामापि गुणफलोपलब्धेः अर्थवदित्यभियुक्तैः* परिहृतत्वात्। एवंनामेदं कर्मेत्यवगम्यते। तत्र गुणः द्रव्यदेवतादिः। फलं च तस्य स्वर्गः पश्चादवगम्यत इति। तस्मानामधयपदानामविरुद्धोऽन्वयः॥ क्वचित् वाक्यभेदपरिहाराय विशिष्टविधिः] कचित्पुनरप्राप्त भावार्थे सगुणमेव तत्कर्म चोद्यते । यथा-- 'आग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाऽच्युतो भवति' (तै. सं. २-६-३) इति। यथा वा एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' (ता.बा. १७.७-१) इतीत्यलं शस्त्रान्तरोदार'गहनकथाविस्तरेणेति नास्ति नामधेयद्वारेणापि प्रमाणताऽऽक्षेपः। सर्वप्रकारेणापि सिद्ध वेदप्रमाणत्वमिति ॥ वेदप्रामाण्य सिध्यर्थमित्थ मेताः कथाः कृताः।. न तु मीमांसक'च्छातपारमिथ्याभिधानतः ॥ १४३॥ * अभियुक्तरिति। 'नामापि गुणफलोपबन्धेनार्थवत्' (शा.भा. :-४-१, इति भाष्यम्। एवंनामकोऽयं यागः, एतद्गुणकः, एतत्फलक:--इति रीत्या गुणफलायन्वयार्थ स्वेन नाम्नः सार्थक्य । यदि नामेव न स्यात्, तदा कस्य को गुणो विधेयः स्यात्, फलं वा ॥ आग्नेय इति। अत्र आग्नेयपदं किं गुणपरम् ? उस कर्मनामधेयमिति संशय्य, 'अप्राप्ते शास्त्रमर्थवत्' इति न्यायमनुरुध्य ---तणास्तु विधीयेरविभागाद्विधानार्थे न चेदन्येन शिष्टाः' (जै.सू.१-४.९) इतिन्यायेनोभयविधिरिति सिद्धान्तितम् ! एवं 'एतस्यैव रेवतीषु' इत्यत्र एतस्यैवेति प्रकरणप्राप्त अग्निष्टतमनूद्य पशुफलाय रेवतीरक्सम्बन्धिवारवन्तीयसामगुणकत्व विधीयते ? उत तादृशगुणविशिष्टः अपूर्वः यागः विधीयत इत्याशंक्य, ताशगुणविशिष्टं कर्मान्तरमेव विधीयत इति सिद्धान्तितम् (जै सू. २-३.१२)॥ न त्वित्यादि। छातं-छिन्नं पारं येन, सः छातपारः, मिनमर्याद इत्यर्थः। मीमांस केषु अयं मर्यादोल्लङ्घाति मिथ्यामिधानतः “इत्यर्थः । मीमांसकानां मर्यादां भेत्तायमिति वृथाख्यात्यर्थ न कथाः कृता इति यावत् ॥ स्तरोक्त-ख. प्रामाण्या-ख. स्याति प्राप्ताऽस्माभिमानतः-स.

Loading...

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810