________________
690
नामधेयप्रामाण्यपरीक्षा
न्यायमचरी
[नामधेयपरत्वे पूर्वोक्तानर्थ न्यशक्कानिरासः] यत्तु नामधेयपक्षे नैरर्थक्यमाशङ्कितं-तदपि न चारु - नामापि गुणफलोपलब्धेः अर्थवदित्यभियुक्तैः* परिहृतत्वात्। एवंनामेदं कर्मेत्यवगम्यते। तत्र गुणः द्रव्यदेवतादिः। फलं च तस्य स्वर्गः पश्चादवगम्यत इति। तस्मानामधयपदानामविरुद्धोऽन्वयः॥
क्वचित् वाक्यभेदपरिहाराय विशिष्टविधिः] कचित्पुनरप्राप्त भावार्थे सगुणमेव तत्कर्म चोद्यते । यथा-- 'आग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाऽच्युतो भवति' (तै. सं. २-६-३) इति। यथा वा एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' (ता.बा. १७.७-१) इतीत्यलं शस्त्रान्तरोदार'गहनकथाविस्तरेणेति नास्ति नामधेयद्वारेणापि प्रमाणताऽऽक्षेपः। सर्वप्रकारेणापि सिद्ध वेदप्रमाणत्वमिति ॥
वेदप्रामाण्य सिध्यर्थमित्थ मेताः कथाः कृताः।.
न तु मीमांसक'च्छातपारमिथ्याभिधानतः ॥ १४३॥ * अभियुक्तरिति। 'नामापि गुणफलोपबन्धेनार्थवत्' (शा.भा. :-४-१, इति भाष्यम्। एवंनामकोऽयं यागः, एतद्गुणकः, एतत्फलक:--इति रीत्या गुणफलायन्वयार्थ स्वेन नाम्नः सार्थक्य । यदि नामेव न स्यात्, तदा कस्य को गुणो विधेयः स्यात्, फलं वा ॥
आग्नेय इति। अत्र आग्नेयपदं किं गुणपरम् ? उस कर्मनामधेयमिति संशय्य, 'अप्राप्ते शास्त्रमर्थवत्' इति न्यायमनुरुध्य ---तणास्तु विधीयेरविभागाद्विधानार्थे न चेदन्येन शिष्टाः' (जै.सू.१-४.९) इतिन्यायेनोभयविधिरिति सिद्धान्तितम् ! एवं 'एतस्यैव रेवतीषु' इत्यत्र एतस्यैवेति प्रकरणप्राप्त अग्निष्टतमनूद्य पशुफलाय रेवतीरक्सम्बन्धिवारवन्तीयसामगुणकत्व विधीयते ? उत तादृशगुणविशिष्टः अपूर्वः यागः विधीयत इत्याशंक्य, ताशगुणविशिष्टं कर्मान्तरमेव विधीयत इति सिद्धान्तितम् (जै सू. २-३.१२)॥
न त्वित्यादि। छातं-छिन्नं पारं येन, सः छातपारः, मिनमर्याद इत्यर्थः। मीमांस केषु अयं मर्यादोल्लङ्घाति मिथ्यामिधानतः “इत्यर्थः । मीमांसकानां मर्यादां भेत्तायमिति वृथाख्यात्यर्थ न कथाः कृता इति यावत् ॥
स्तरोक्त-ख. प्रामाण्या-ख. स्याति प्राप्ताऽस्माभिमानतः-स.