________________
आडिकम् ४]
उद्धिदादिपदानां नामधेयत्वम्
689
सद्धिदादिपदानां नामधेयत्वसिद्धान्तः] अत्रोच्यते-गुणविधिपक्षे यथा भवानाह, तथैव । नामधेयपक्ष एव तु श्रेयान् इत्यभ्युपगम्यते। तथा हि-भावार्थस्य फलं प्रति करणत्वात् तत्सामानाधिकरण्येन तृतीया 'प्रयुज्यते तत्र 'वाजपेयेन' इति, साध्यश्च भवन् भावार्थः करणभावमनुभवतीति । साध्यत्वापेक्षया तत्सामानाधिकरण्येन कचित् द्वितीयाऽपि प्रयुज्यते'अग्निहोत्रं जुहोति' इति ॥
[उद्भिदादिनाम्नां न विधानम् ] ननु! गुणवन्नामापि विधातव्यमेव, अनभिहितस्यानवगमात् । ततश्च गुणविधिपक्षस्पृशः वाक्यनेदादिदोषाः तदवस्था एवनैतदेवम-*नास्य कर्मणः इदं नाम वेदितव्यमिति संथासंज्ञिसम्बन्धं वेदो विदधाति । योगेन तु केनचित् प्रवर्तमानं नामधेयमवगम्यत एव। उद्भेदनमनेन पशूनां क्रियत इति उद्भिदिदम् ॥
'दधिमधुपयोघृतं धानास्तण्डुला उदकं तत्संसृष्टं प्राजापत्यम्' इति नानाविधविचित्रद्रव्यसाध्यत्वात् चित्रा॥ . अग्नये होगमस्मिन्नित्यग्निहोत्रम् ॥ ... 'यथा वै श्येनो निपत्यादत्ते, एषमनेन द्विषन्तं भ्रातृव्यमादत्ते' (पदविंबा. ३-८) इत्यर्थवादात् श्येन इव श्येनो यागः॥
वाज-अन्नं पीयते अस्मिन्निति वाजपेयो यागः। तस्मात् कर्मनामान्येतानि ॥
* न हीति। अत्रेदं शाबरं भाष्य-'न नामधेयं विधायिष्यते । अनुवादा युद्भिदादयः । कुतः प्राप्तिरिति चेत्-उच्छब्दसामर्थ्यात् मिच्छब्दसामर्थ्याचोमिच्छब्दः क्रियावचनः । उद्भेदन-प्रकाशनं पशूनामनेन क्रियत इस्युद्भित यागः' (शा. भा. १-४-१) इति । अयमेव न्याय उत्सरत्रापि योजनीयः ।।
1 युज्यते-क.
इत्यर्थवादा:-क.
NYAYAMANJABI