________________
688 नामधेयप्रामाण्यपरीक्षा
न्यायमभरी वाक्यभेदस्य दोषत्वोपपादनम्] * ननु ! 'यजेत' इति रूपसाम्यात् उभयत्रापि सम्बध्यते 'यजेत स्वाराज्यकामः वाजपेयेन च' इति तुल्यमस्योभयत्रापि रूपम-न-रूपसाम्यस्यासिद्धत्वात्। स्वाराज्यं प्रति यजिरप्राप्त त्वात् विधीयते, गुणं च प्रति प्राप्तत्वात् अनूद्यते। अनवगते च कर्मणि गुणविधानमघटमानमिति अवश्यं गुणविधिपक्षे गुणं प्रति यजिः प्राप्तत्वादुद्देश्यो भवति, प्रधानं च। स एव स्वाराज्यं प्रति विधेयत्वात् उपादेयो गुणश्चेति विरुद्धरूपापत्तेः, न यजिरुभाभ्यां युगपत् सम्बद्धुमर्हति । यः स्वाराज्यं साधयितुमिच्छेत् , स यजेतेत्यन्यद्रपम् ; यद्यजेत, तत् वाजपेयेनेत्यन्यद्रूपम् । तस्मात् भावार्थप्राप्तौ प्रमाणान्तरापेक्षणात् गुणविधिपक्षे तत् अप्रमाणं वचनम् ॥ . [उद्भिदादिपदानां नामधेयत्वे वैफल्यम्
: ___ अथैष दोषो मा भूदिति नामधेयपक्ष आश्रीयते; तदैषामुद्भिदादिपदानां विस्पष्टमेवानर्थक्यम्।। यावदेवोक्तं भवति : यजेत' इति, तावदेव 'वाजपेयेन यजेत' इति । एवमानर्थक्यात् अन्यत्राप्यसमाश्वांसः॥
* ननु यजनीत्यत्रास्ति अंशद्वयम्-धातुः, आख्यातश्च । भूतार्थवाचिना धातुना सिद्धः यागः स्वर्गसाधनत्वेन बोध्यते । आख्यातेन च भाग्यत्वेन स एव बोध्यत इति गुणान्वयसंभव इति न दोष इति शङ्कते-नन्विति । रूपसाम्यात् , शब्दस्वरूपस्यै क्यमयुक्तात् । . असिद्धत्वमेवोपपादयतिस्वाराज्यमित्यादिना। यदा च यागः स्वर्गार्थं विधीयते, तदा तत्र अपूर्वत्वं, विधेयत्वं, प्राधान्यं इति त्रयो धर्माः संभवन्ति । यदा च वाजपेयगुणविधानं, तदा यागे प्राप्तत्वं, अनुवाद्यस्वं, अप्राधान्यं = गुणत्वं इति त्रयो धर्माः तत्रैव भवन्ति । एते च परस्परविरुद्धा इति स्वरूपत एव ज्ञायते । अतः एकदा स्वरूपविधिः, गुणविधिः इत्युभयमपि सर्वथा न संभवत्येव ॥
आनर्थक्यम्-न हि नामधेयनिर्देशमात्रात् यागस्वरूपे कश्चन भतिशयः प्रामोति ॥
* अन्यत्र-इतरवैदिकवाक्येष्वपि एवमेवानर्थत्वशङ्काप्रसङ्गः ॥
1वाजपेयेनेति-ख.