________________
आदिकम् ४] कार्यपरशब्दानामेव प्रामाण्यमित्याक्षेपः
691 __ [पदानां कार्य एवार्थे व्युत्पत्तिः ? उत सिद्धेऽपि]
ननु ! एवं विध्यर्थवादमन्त्रनामधेयानां कार्योपयिकत्वदर्शनात कार्य एवार्थे वेदः प्रमाणमित्युक्तं स्यात्। ततः किम् ?
सिद्धेऽर्थे तस्य प्रामाण्यं हीयते ?
ततोऽपि किम् ? . भ्यान् * भूतार्थाभिधायिग्रन्थराशिरुपेक्षितो भवेत्। सकलस्य च वेदस्य प्रामाण्यं प्रतिष्ठापयितुमेतत् प्रवृत्तं शास्त्रम् + ॥ ... [कार्य एव पदानां व्युत्पत्तिरिति मीमांसकरीस्था पूर्वपक्षः]
अत्र केचिदाहुः-सर्वस्यैव वेदस्य कार्येऽर्थे प्रामाण्यम्तथा हि-गृहीत सम्बन्धः शब्दः अर्थमवगमयति। सम्बन्धग्रहणं चास्य वृद्धव्यवहारात्। वृद्धानां च व्यवहारः 'पानीयमानय', 'गां बधान', 'ग्रामं गच्छ ' इति कार्यप्रतिपादकैरेव शब्दैः प्रवर्तत इति तत्रैव व्युत्पद्यन्ते बालाः। प्रयोजनोद्देशेन हि वृद्धा वाक्यानि प्रयुञ्जते। न च सिद्धार्थाभिधायिना प्रवृत्तिनिवृत्ती अनुपदिशता शब्देन किञ्चित् प्रयोजनममिनिर्वर्तत इति तस्य न 'प्रयोगयोग्यत्वम् । अप्रयुज्यमानस्य च न सम्बन्धग्रहणम्। अगृहीतसम्बन्धस्य च न प्रतिपादकत्वम् । अप्रतिपादकस्य च || न प्रामाण्यम् ॥
[क्रियारहितं वाश्यं प्रयोक्तुं नाहम् 'अपि च आख्यातपदोच्चारणमन्तरेण निराकाङ्क्षप्रत्ययानुत्पादात् अवश्यमाख्यातयुक्तं वाक्यं प्रयोकव्यम्। आख्यात पदेन च
* भूतार्थ:--सिद्धार्थः। कार्य-भम्य, सिद्ध-भूतमिति म्यवहारः ॥
एतच्छास्त्रं-न्यायशास्त्रम् ॥ . * सम्बन्धः--शक्तयाख्यः ॥
8 'प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा। पुंसां येनोपदिश्येत तच्छास्त्रममिधीयते' (श्लो. वा. १-१-५, शब्द. ४) इति भट्टः ॥
॥ न प्रामाण्यमिति। प्रमाकरणं हि प्रमाणम् ॥
1 गम्यस्वम्-क.
पदेन-ख.
44*