________________
692
सिद्धे व्युत्पत्तिसमर्थनम्
[न्यायमचरी
साध्यरूपोऽर्थ उच्यते। 'नाम'पदेन च सिद्धः। भूतभव्यसमुशारणे * भूतं भव्यायोपदिश्यत इति वाक्यस्य साध्यार्थनिष्ठतेति न भूतार्थविषये तस्य प्रामाण्यम् । अतश्च कार्येऽर्थे शब्दस्य प्रामाण्यम् , यतश्च कार्यरूपोऽर्थः शन्दस्यैव विषय इति तत्र' शब्दः प्रमाणतां लभते। सिद्धोऽर्थः' प्रसिद्धत्वादेव प्रमाणान्तरपरिच्छेदयोग्य इति तत्प्रतिपादने तत्प्रमाणान्तरसव्यपेक्षः शन्दो भवति। ततश्च तग्राहिणः प्रमाणान्तरस्यैव तत्र प्रामाण्यं स्यात्, न शब्दस्य । शब्दश्च तदुपस्थापनमात्र एव निष्ठः स्यात् । तस्मान् शब्दप्रामाण्यमिच्छता कार्य एवार्थे तत्प्रामाण्यमङ्गीकर्तव्यमिति ॥
[सिद्धेऽपि पदानां व्युत्पत्तिरिति सिद्धान्तः] अत्रोच्यते-यत् ब्रूषे कार्य एवार्थे वाक्यस्य व्युत्पत्तिरितितदयुक्तम् । एवं हि 'सिद्धरूपोऽयं तस्यार्थः' इति कथं त्वयोच्यते । न हलब्धव्युत्पत्तेः शब्दात् अर्थप्रत्ययो युज्यते। अर्थप्रतीतिश्च ततो दृश्यते, व्युत्पत्तिश्च तत्र नास्तीति चित्रम् !
न च कार्यपरैरेव शब्दैः लोके व्यवहारः; वर्तमानोपदेशकेभ्योऽपि || नद्यादिवाक्येभ्यः' व्यवहारप्रवृत्तेः तत्रापि व्युत्पत्तिर्भवत्येव ॥
_ * भूतं भव्यायेति। 'घटमानय' इत्यादौ हि घटपदं भानयनरूपक्रियाशेषभूतमेव। आनयनं न सिद्धं,. अतः तत् साध्य-भग्यं च । घटस्तु पूर्वमेव सिद्धः--भूतश्च ।।
प्रमाणान्तरं-प्रत्यक्षावि ॥ तदुपस्थापनं-आनयनशेषतया घटसमर्पणम् ॥
एवं हीत्यादि। 'घटः सिद्धः' इति यदा उच्यते, तदा तस्य वाक्यस्य सिद्धवस्तुबोधकत्वं सिद्धमेव ॥
|| नद्यादिवाक्यम्। 'नद्यास्तीरे फलानि सन्ति' इति वाक्यम् ॥
1 नामधेय-ख.
न च-ख.
लभते-क. 'पदेशकेभ्यः-ख.