________________
आडिकम् ४] सिद्ध व्युत्पत्त्युपपादनम्
698 [कार्योपदेशाभावेऽपि ग्युत्पत्तिः) अपि च अङ्गस्यादिना पुरोऽवस्थितमर्थ निर्दिश्य यदा कश्चित् कथयति 'अस्येदं नाम' इति तदा कार्योपदेशमन्तरेणापि भवत्येव व्युत्पत्तिः। 'अस्माच्छब्दादयमर्थः प्रतिपत्तव्यः' इति कार्योपदेश एवासाविति 'चेत्-न', तादृशानामक्षराणामश्रवणात्। 'अस्येदं नाम' इति हि श्रयते, न 'अस्मादयं प्रतिपत्तव्यः' इति । 'अस्येदं नाम' इत्येषामेवाक्षराणां एषोऽर्थ इति चेत्-न-अपदार्थस्य क्यार्थत्वायोगात् । न चैवं कल्पयितुमपि शक्यते, 'भस्येदंन म' इत्येतावतैव तत्प्रतिपत्तिसिद्धःप्रतिपत्तिकर्तच्यताऽभिधानस्य निष्प्रयोजनत्वात्॥
कार्यपरादपि शब्दात् व्युत्पत्तिर्भवन्ती न वाक्यार्थमात्रपर्यवसायिनी भवति; किन्त्वेकैकपदावापोद्वापद्वारकपदार्थपर्यन्ता सा भवति। पदार्थव्युत्पत्तिसंस्कृतमतेश्च भभिनवकविविरचितावर्तमानोपदेशश्लोकश्रवणेऽपि वाक्यार्थप्रतीतिदृश्यत एवेति नाव्युत्पत्तिकृतमप्रामाण्यम्॥
'न चासौ भूतार्थप्रतिपादकशब्दजनिता प्रतीतिः बाध्यते, सन्दिग्धा वा; येन प्रत्यक्षादिप्रमाणान्तरकरणकप्रतीतिवत् प्रमाणफलमेव सा भक्तुिमईति ॥
(शब्दस्य प्रमाणान्तरसापेक्षत्वं गुण एव ] : यत्पुनरभ्यधायि-कार्येऽथै प्रमाणान्तरनिरपेक्षतया प्रमाणं भवति शब्दः, 'भूतार्थे तु नेति-तदसत्-शब्दस्य प्रमाणान्तरसापेक्षत्वानपायात्। प्रमाणान्तरेणानवगते ह्यर्थे शब्दः'
. * निष्प्रयोजनत्वात्-प्रमाणतन्त्रं हि ज्ञानं, न पुरुषतन्त्रम् । अतः 'जानीहि' इति विधिमात्रेण न ज्ञानमुत्पद्येत॥
किन्त्वित्यादि। प्रत्येकं पदैरर्थोपस्थित्यनन्तरं हि वाक्यार्थः जायेत । तदा प्रत्येक सिद्धपदेनापि बोधः अनुभूयत एव ॥ विर्तमानोपदेशेति। सिद्धार्थप्रतिपादकेत्यर्थः । प्रत्यक्ष--इन्द्रियम् । तस्करणकः संशयादिः न प्रमाणम् ॥
1 चेत-ख. न चार्थ-क. 'न सिद्धऽ प्रमाणान्तरसापेक्षत्वादिति सदसत्-ख.