________________
694 सिद्धे व्युत्पत्तिसमर्थनम्
न्यायमचरी प्रवर्तयितुमेव न शक्नोति इत्यवोचाम (पु. +81)। वक्ष्यामध वाक्यार्थचिन्तायामपि (५ आड्डिके)। प्रमाणान्तरसापेक्षत्वं तस्य * प्रत्युत प्रामाण्य मावहति, न प्रतिहन्ति' ॥
[प्रमाणान्तरसापेक्षत्वं नाप्रामाण्यावहम्] +किञ्चेदं सापेक्षत्वमिति वक्तव्यम् । किं सिद्धार्थाभिधायिनः शब्दस्य उत्पत्तावेव प्रमाणान्तरसापेक्षत्वम? उत तद्विषयस्य प्रमाणान्तरपरिच्छेदयोग्यत्वम् ? इत्युभयथाऽतिप्रसङ्गः। उत्पत्ती प्रमाणान्तरसव्यपेक्षतया यद्यप्रामाण्यं वर्ण्यते, हन्त ! हतमनुमानम् , तस्योत्पत्तौ प्रत्यक्षादिसापेक्षन्वात्। वर्णित च 'तत्पूर्वकं त्रिविधमनुमानम्' (न्या. सू. १-१-५) इति । तद्विषयस्य प्रमाणान्तरग्रहणायोग्यतायां तु तदप्रामाण्ये, प्रत्यक्षादीनां सर्वेषां अप्रामाण्यं प्राप्नोति, प्रमाणसंप्लवस्य प्राक् (पु. 87) प्रतिपादितत्वात् ।।
[विधिवाक्यानां कार्यपरत्वमसंभवि , अपि च विधियुक्तेष्वपि वैदिकेषु लौकिकेषु वाफ्येषु' अधीष्व', 'गां बधान' , 'ग्रामं गच्छ' इत्येवमादिषु अन्वयव्यतिरेकाभ्यां हिताहितप्राप्तिपरिहारसाधनसामर्थ्यावगमेन प्रवृत्तिसिद्धः विनियोगमात्रनिष्ठ एव विधिर्भवति। अप्रवृत्तप्रवर्तनात्मकनिरपेक्षनिज
* प्रमाणान्तरावगतमेव यदा बोधयति, तदा संवादयत् प्रामाण्यं दृढीभवति ॥
+किं-कीदृशम् ॥
+ प्रमाणसंप्लवस्ये ने । तथा च प्रत्यक्षमपि प्रमाणान्तरग्रहणयोग्य गृह्णात्येव ॥
विनियोगमात्रेति । न हि शतशः विधिश्रवणमात्रेण पुरुषः स्वेष्टसाधनस्वानिष्टनिवारकत्वज्ञानमन्तरा प्रवर्तते । अतः विधिः न साक्षात्प्रवर्तयितुमलमिति कार्यपरत्वेऽपि तदंशेऽनुवादकत्वमेव ॥
आवहति-ख.