________________
श्राह्निकम् ४ वेदानामपि कार्यपरत्वानिवन्धः
605 व्यापारवैधुर्यात् कार्यपरत्वानुपपत्तेः अनुवादमात्रं विधिवचन मिति कार्यार्थप्रामाण्यवादिनां सर्वमेव लौकिकं वाक्यं अप्रमाणं स्यात् ॥
सिद्धपरवाक्येषु विधिकल्पनमपि न युक्तम् ] ये तु भूतार्थवादिषु 'लौकिकवाक्येषु प्रवृत्ति निवृत्तिकारिषु विधिनिषेधौ कल्पयन्ति ते नितरामृजवा*-श्रूयमाणोऽपि विधिः अनुवादीभवति यत्र, तत्राश्रुतः कल्प्यत इति किमन्यदतः परमार्जवम? प्रवृत्ती तु तत्र विधिर प्रयोजक एव; अन्वयव्यतिरेकाभ्यां पुरुशार्थसाधनसामर्थ्यावगमात् , पुरुषप्रत्ययाद्वा लोकेषु प्रवृत्तिसिद्धः॥
[शब्दात वक्तृतात्पर्यानुमानपक्षनिराकरणम् ] तत्रैतत्स्यात्--लौकिकवाकानां विवक्षापरत्वात् न कार्यार्थत्वम् । यथोक्तं-'अपि च पौरुषेयाद्वचनात् एव मथं पुरुषो वेदेति भवति प्रत्ययः, नैवमर्थतेनि'। वैदिकानि पुनः अपौरुषेयतया कार्यपराण्येव वाक्यानि' इति–एतदपि न पेशलम-अपौरुषेयस्य वचसः प्रतिक्षिप्तत्वात् । वेदेऽपि कर्तुरीश्वरस्य साधितत्वात् ॥
न च पुरुषवचनमपि विवक्षापरमिति दर्शितम्। तथा हिन विवक्षा वाक्यार्थः, 'देवदत्त! गामभ्याज कृष्णां दण्डेन' इति पदग्रामे विवक्षावाचिनः पदस्थाश्रवणात् । अपदार्थस्य वाक्याथत्वानुपपत्तेः। न च ||विषभक्षणवाक्यस्येव परगृहे भोजननिवृत्ती,
* ऋजवः इति उपहासोक्तिः ॥ + पुरुषप्रत्ययात्-वक्त: पुरुषस्यातत्वज्ञानात् ॥
* अयं पुरुषः-शब्दप्रयोक्तपुरुषः। एतारकार्थबोधनेच्छया इमं शाब्दं भयं प्रयुक्तवानिति यस्ति व्यवहारः ॥
पदैस्तथाऽबोधनेऽपि आहत्य वाक्येनास्त्वित्यत्राह-अपदार्थस्येति ॥
। 'परगृहे भोजनतो विषभक्षणमेव वरम्' इति वाक्येन हि विषभक्षणं न विधेयम् , किन्तु परगृहभोजननिषेध एव । स च म पदानामर्थः, मथापि
1 प्रवृत्ति-ख.
भपि च-ख.
मर्थप्रती :-ख.