________________
696
सिजे व्युत्पत्तिसमर्धनम् সিং । पौरुषेयवचसः विवक्षायां तात्पर्यशक्तिरपि प्रभवति । न हि सर्वास्मनाऽमिधात्रीं शक्तिमवधीयैव तात्पर्यशक्तिः प्रसरति 'इति न' विवक्षापरत्वम् ॥
[अनुमानादेव वक्तृतात्पर्यनिश्चयः] कथं तर्हि पुरुषववनादुञ्चारितात् विवक्षावगम इति चेत् , अनुमानादिति ब्रूमः। कार्यत्वात् पदरचनायाः पुरुषेच्छापूर्वकत्वमनुमीयते। अर्थावगमपुरस्सरं च पुरुषवचनात् विवक्षानुमानं-- 'एवमयं वेद', 'पघमयं विवक्षति' इति। अर्थोपरागरहितस्य विवक्षा मात्रस्य *जीवतां 'निसर्गत एव सिद्धः। 'अय'मर्थोऽस्य' विवक्षितः' इत्यर्थोपरज्यमाना तु विवक्षा 'न शक्या अर्थेऽनवगतेऽवगन्तुम । अर्थश्चेत् प्रथममवगतो वाक्यात् , न तर्हि सत् । विवक्षापरम् , अर्थपरमेव भवितुमर्हति । लोकवाक्यानां विवक्षापरत्वे चाहोऽर्थे + सम्बन्धग्रहणासंभवात् वेदादपि वाक्यार्थावगमो न स्यादित्यलं प्रसङ्गेन । तस्मान्न कार्यपरत्वेनैव शब्दस्य प्रामाण्यम् ॥ ..
[कार्यान्वयरहितवाक्यानामप्यस्ति प्रामाण्यम् ] यत्पुनरभाणि---नाख्यातशून्यं वाक्यं प्रयोगाहम् । तेन घिना नैराकाट्यानुपपत्तेः। आख्यातस्य च भव्यरूपः अर्थः, न नाम्न इव भूतः। भूतभव्यसमुच्चारणे च भूतं भव्यायोपदिश्यत इति सर्वत्र कार्यपरत्वमिति-तदपि न सांप्रतम्-'पुत्रस्ते जातः", 'कन्या ते वाक्यैबाध्यत इति कथमिति चेत्-न हि तत्र पदैरर्थप्रतीतिरेव न भवति । पदसंघातरूपातु वाक्यात् तावानेव हि बोध्येत । विवक्षाज्ञानं तु पाणिकमेवानुमानादिति समनन्तरमेव वक्ष्यते ॥
*जीवतां-चेतनानामिति यावत् । शब्दे श्रुते सति 'अयं किञ्चिद्विवक्षति' इति सामान्यत एव विवक्षाऽनुमातुं शक्या, न तु अर्थोपरागेण । अर्थस्य शाब्दबोधाधीनत्वेन, तत्पूर्व अर्थोपरागासंभवादित्यर्थः ॥
लोकतोऽवगतपदपदार्थव्युत्पत्तिकाः खलु वेदादप्यर्थं प्रतिपद्येयुः ॥ इति--क. मात्र-क. निसर्ग-क. “मों-स्त्र. न-क.