________________
लोकेऽपि शब्दानां कार्यपरत्वानियमः
697
गर्भिणी' इति सुखदुःखकारिणां अनुपदिष्टप्रवृत्तिनिवृत्तिकानां अनाख्यातानामपि वाक्यानां लोके प्राचुर्येण प्रयुज्यमानत्वात् ॥
[प्रमाणतन्त्रस्य छानसुखादे विषिसंभवः] ___ अथ 'सुखी भव', 'दुःखी भव' इति तत्र कार्यपरत्वं व्याख्यायते तदपिन युक्तम्-ईशानामक्षराणामश्रवणात् ; कल्पनायाच निष्फलत्वात्। न हि 'सुखी भव' इत्युपदेशात् असो सुखी भवति ; सुखीभवितुं वा क्वचित् प्रवर्तते । * उपाये पूर्वमेव प्रवृत्तत्वात् । । उपेये च प्रवृत्त्यनुपपत्तेः। किन्तु पुत्रजन्मश्रवणत एवासी सुखीभवति ॥ _____तथा कस्यचित् उत्तरीयावगुण्ठिततनोः निद्रायमाणस्य क्वचित् केनचित् केलिना रजुवेष्टितवपुषः, पश्चात्प्रबोधसमये सहसा सरीसृपवलितमात्मानं मन्यमानस्य भयादनुन्मीलितचक्षुषः केनचित्प्रयुज्यमानं 'रज्वा वेष्टितोऽसि' इति वचः श्रवणपथमवतरति, तत् सिद्धार्थबोधकमपि प्रमाणम्। न च तत्र ‘मा भैषीः' इति प्रयोगकल्पनायाः प्रयोजनम् ; रजुवेष्टनप्रत्ययादेव भयनिवृत्तेः सिद्धत्वात् ॥
तथा च विषमविषधराधिष्ठितोऽयमध्वा', 'निधियुक्तोऽयं भूभागः' इति भूतार्थस्यापकं वचो दृश्यते ; न च तदप्रमाणम् । नच तत्र ‘मा गाः स्वमनेनाध्वना', 'निधि गृहाण' इति विधिनिषेध• परत्वं युक्तम् , एषां पदानामश्रवणात् ॥
. सर्वत्र कार्यपदाध्याहारः नापेक्षितः] ननु! वक्तुः प्रेक्षापूर्वकारितया निष्प्रयोजनवचनानुचारात् अवश्यं 'मा गाः', 'गृहाण' इति कार्याक्षराणि हृदये परिस्फरन्ति । कथञ्चिदालस्यादिना नोरितानीति--नैतद्युक्तम्--प्रेक्षापूर्वकारि
* उपाय:-सुखदुःखहेतुवाक्यश्रवणम् ॥ + उपेयं-फलं सुख दुःखं वा। नैतत् विधेयम्, पुरुषानधीनस्वात्॥
प्रेक्षापूर्वकारित्वादेवेति । कदा कार्यपदं प्रयुक्कं चेत् सफलं भवेत् ? कदा प्रयोगाप्रयोगयोरविशेषः । इत्यादिज्ञानवस्वादेव ताशस्थले न कार्यपवं प्रयुक्त इत्यर्थः। म चाम्तत: तन्त्र 'सन्ति' इति वा क्रियापदमभ्या