________________
698 सिरे व्युत्पत्तिसमर्थनम्
[न्यायमचरी स्वादेव वक्तुः यथाऽवस्थितवस्तुस्वरूपमात्रख्यापकवचनोचारणमेव युक्तम् । अर्थात् प्रवृत्तिनिवृत्त्योः सिद्धत्वात् ; पराभिप्रायस्य चानवस्थितत्वेन नियतोपदेशानुपपत्तेः। सर्पबन्धजीविनो हि 'सपन्नग' एव पन्था उपादेयतयाऽवभाति । वीतरागस्य च ब्रह्मविदः वित्तेषणाव्युन्थितस्य गोविन्दस्वामिन इव निधिरपि हेयतया परिस्फुरतीति कस्मै किमुपदिश्यताम् ? वस्तुस्वरूपे तु कथिते यथाहृदयवर्तिरागद्वेषानुवर्तनेन कश्चित्तत्र प्रवर्तताम! कश्चित्ततो निवर्तताम! इति भूतार्थकथनमेव लोके प्रेक्षावान् करोति, न विधिनिषेधौ प्रयोकुमर्हतीति ॥
सर्वत्र ज्ञानविधानपक्षोऽपि अत एव निरस्तः] येऽपि त्रुवते-*सर्वत्र प्रतिपत्तिकर्तव्यताविधानमेवादौ वेदितव्यम् ; अविधिकस्य वाक्यस्य प्रयोगानईत्वादिति-तेऽपि न साधु बुध्यन्ते-विदितशब्दार्थसम्बन्धस्य पुंसा शब्दश्रवणे सति प्रतिपत्तः स्वतः सिद्धत्वेन अनुपदेश्यत्वात् । असिद्धायां वा प्रतिपत्ती प्रतिपत्तिकर्तव्यताऽपि कुतः प्रतीयेत?
___ कार्यद्वारव पदार्थानां सम्बन्धमानमिति न नियम:]
ननु ! कार्यार्थप्रतिपादकं पदमन्तरेण पदान्तराणि संसर्गमेव न भजन्ते, कार्याकालानिबन्धनत्वात् सम्बन्धस्य। तेन सर्वत्र कार्यहार्यमिति वाच्यम् ; सत्ताया: सिद्धत्वेन क्रियात्वाभावात्। सन्तीति प्रयोगस्तु अनुवाद एव, असत्वशङ्कावारणायैव, नान्या क्रिया तत्र बोध्यत इति ॥
___ * सर्वत्रेति। उक्तक्रमेण प्रेक्षावतः तावत्येव प्रवृत्तेः सर्वत्र तावन्मा विधेयमित्यर्थः ।।
जन भजन्त इति। प्रत्ययमन्तरा पदं न प्रयुज्यत एव। प्रत्ययाब सुवादयः सप्तविधाः तत्तत्कारकपदोपरि भवन्ति। कारकत्वं च क्रियानिर्वतकत्वमेव। तथा चैकक्रियान्वयोद्देशेनैव सप्तविधकारकाणि प्रवृत्तानीति कथं कार्यपरित्यागः। परित्यागे वा कथं तेषां कारकत्वमित्याक्षेपः । अन्ततः साधुस्वार्थ
संपन-क.