________________
आडिकम् ४] कुत्रचिन्छब्दस्य कार्यपरस्यासंभवकथनम्
699 परत्वम्--उच्यते--नैप नियमः, कार्याकाङ्क्षागर्भ एव सर्वत्र सम्बन्ध इति ; वर्तमानापदेशकानामपि प्रेक्षापूर्वकारिवाक्यानां इतरेतरसंसष्टार्थप्रतीतिजनकत्वदर्शनात्। न हि * दशदाडिमादिवाक्यसदेशि वर्तमानापदेशीनि वचांसि भवन्ति । कार्यनिबन्धने हि सम्बन्धे तद्रहितानामनन्वय एव स्यात् । दर्शितश्चान्वयः पूर्वोदाहृतवाक्यानाम्॥
कार्यवाक्येऽपि सर्वेषां पदानां न क्रियान्वयनियमः) अपि च लिङन्तपदयुक्तऽपि वाक्ये पदान्तरार्थानां परस्परमन्वयो दृश्यत एव । स कथं समर्थयिष्यते?
कार्याकाङ्क्षानिबन्धने हि कार्ये सर्वेषामन्वयः, न परस्परमिति 'ब्रुवन् यात्'-- सर्वथा कार्यसंबन्धे प्रथममवगते सति पश्चादरुणैकहायनीन्यायेन वाक्यीयः परस्परान्वयोऽपि सेत्स्यतीति-हन्त तर्हि परस्परान्वये कार्याकाङ्क्षाकारणम् ! तर्हि 'अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति' इति द्रव्यगुणयोः विभक्तथा सोमक्रय प्रति युक्तत्वात्, प्रथम क्रयसंबन्ध एव तयोर्गम्यते। यश्च पाश्चात्यः परस्परान्वयः, तत्र कार्यपारतव्यापादिका विभक्तिः अकारणम; असत्यामपि || तस्यां 'शुक्लः पटः' इति सामानाधिकरण्यप्रयोगेणा. न्वसिद्धेः। तस्मात् कार्येक्यनिबन्धनोऽन्वय इति नियमो य उच्यते; स कल्पनामात्रप्रभवः, न प्रमाण वृत्त'गम्य इति ॥ मपि विभक्तिप्रयोगदर्शनात्, तत्र क्रियायाः सर्वथाऽप्रतीते: न कार्यान्वयो नियत इति समाधानाशयः॥ ... * दशदाडिमादीति। परस्परानन्वितार्थकानीत्यर्थः ॥ + पदान्तरार्थानां-नीलघटमानयेत्यादौ नीलादिपदार्थानाम ॥
अरुणैकहायनीन्यायेनेति । 'अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति' इत्यत्र प्रथमं 'मरुणया क्रीणाति', 'एकहायन्या क्रीणाति', 'पिङ्गाक्ष्या क्रीणाति' इतिक्रमेणैव बोधः। विशिष्टबोधस्तु पाणिकः इति तैरङ्गीकृतः॥
$ अकारणमिति । प्राथमिकान्वयबोधजननेनैव हि विभक्तिश्चरितार्था । ॥ तस्यां-क्रियायाम् । प्रातिपदिकार्थलिङ्गवचनमाने हि प्रथमा ।। 1 अब बयाव-ख. व्यवस्था-ख.