________________
700 कार्ये व्युत्पाचसमवनम्
न्यायमञ्जरी सिदस्य साध्यशेषत्वनिर्बन्धोऽपि नास्ति] यत्त भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति-अयमपि न सार्वत्रिको नियमः ; * 'विपर्ययस्यापि 'वीहीन प्रोक्षति' इत्यादी दर्शनात् ॥
+अलं वा दर्शपूर्णमासप्रकरणनिवेशानुज्झितकार्यमुखप्रेक्षणदैन्येन व्रीहिपोक्षणोदाहरणेन ! 'आत्मा शातव्यः' इति तु सिद्धपर एव साध्योपदेशः। न ह्यत्र कर्म किशित्साध्यं प्रधानमुपदिश्यते, * अधिकाराश्रवणात् । न च विश्वजिदादिवत् भधिकारकल्पना काचिदुपपद्यते। न च कर्मप्रवृत्तिहेतुत्वं भात्मज्ञानस्येति वक्ष्यामः ( ९ माद्विके) ॥
[भार्थवादिकं फलमात्मज्ञानस्य न संभवति] ॥ अर्थवादस्त्वर्थवाद एव, नाधिकारिकल्पनाय प्रभवति । *विपर्ययस्येति । प्रोक्षणं हि नीयुद्देश्यकम् ॥ ,
ननु सर्वेषामपि परमापूर्वरूपकार्य निष्पत्यर्थत्वात् प्रोक्षणं न प्रीधामित्याशझ्याह-अलं वेति ॥
अधिकाराश्रवणात्-- फलकामनावान् अधिकारी । न ह्यत्र फलं किबिदस्ति ॥
कर्मप्रवृत्तीति। शरीरातिरिक्तनित्यारमशानमन्तरा स्वर्गाद्यर्थकर्मसु प्रवृत्तिर्न हि संभवेत् ॥
! अर्थवाद इति। 'सर्वमायुरेति, नास्यापरपुरुषाः क्षीयन्ते, य एवं वेद' (ग. ४-११-२) इत्यादिः भानुषङ्गिकफलपरः। मारमोपासनस्य फलं हि मोक्ष एव। ननु तर्हि मोक्षकामनावानेवाधिकारी लग्धः - इति चेत्मोक्षस्य स्वस्वरूपरूपत्वेन साध्यत्वाभावात् । उपासना तु प्रतिवन्धकनिवृत्तावेव पर्यवसथा। प्रतिबन्धकनिवृत्तिस्तु न पुरुषार्थ इति भारमोपासनावाक्यं स्वरूपपरमेव । मधिकमत्रामस्तुतम् ॥
1 विपर्यस्येत्यमि-क.
अथवा-क.
दिश्यते-ख.