________________
द्विकम् ४] उपनिषदा सिबपरत्वसमर्थनम्
To1 तस्मात् अपहतपाप्मादिगुणयुक्तात्मस्वरूपनिष्ठत्वमेव तत्रावतिष्ठते । तस्मिन्नवगते *पुरुषान्तरमार्थनादैन्यानुपपत्तः स एव घुत्तमः पुरुषार्थः। स च सिद्ध एव, न साध्यः। यत्नस्तु कतबुद्धीनां अविद्योपरमायैवेति व्याचक्षते ॥
[भारमशानस्याविधेयस्वम्] _ शातव्यः' इति प्रतिपत्तिकर्तव्यतापरोऽयं विधिरिति चेत्-नप्रतिपत्तेः प्रमितित्वात् । प्रमितेश्च प्रमेयनिष्ठत्वात्। 'सातव्यः' 'इति च कर्मणि' कृत्यप्रत्यय निर्देशात् । कर्मणश्च ईप्सिततमत्वात्
तत्परत्वमेवावगम्यते। विधिस्तत्र प्रसरन्नपि क प्रसरेत् ? फलं तावत् विधेःन विषय एव । यथाऽऽइ भट्टः (श्लो. वा. 1-1-२-२२२)'फलांशे भावनायाश्च प्रत्ययो न विधायकः' इति । उपायस्तु ज्ञानमेव । शानं च शेयनिष्ठमित्युक्तम् ॥
[नात्मज्ञानाङ्गोपदेशोऽपि प्रतिबन्धकनिवृत्तिपर्यवसाय्येव] यस्तु यमनियमादिप्रतिपत्तीतिकर्तव्यताप्रकारोपदेशः, सोऽपि
* पुरुषान्तरं-इन्द्राग्न्यादि। भारमविद्विपये हि ‘स वेद प्रम। , सर्वेऽस्मै देवा बलिमावहन्ति' (ते.अ. १-५) इति श्रूयते ॥
प्रमेयनिष्ठत्वात् -प्रमेयाधीनत्वात् , पुरुषानधीनत्वादिति यावत् ।।
तत्परत्वं-नामपरत्वम् । भारमा स्वस्वीप्सिततमः ॥ . शेयनिष्ठमिति । तथा चेदं वाक्यं न कार्यपरमिति सिद्धम् ॥
॥ यमेत्यादि। यदि न किचिद्विधेय, तर्हि-'शान्तो दान्तः' (बृ. ४-४-२३) इत्यादिना उपासनाविधानं, ‘यमनियमासनप्राणायाम' (यो.सू. २-२९) इत्याद्यङ्गोपदेशमा किमर्थ: ? किमुदिश्यैतानि विधीयन्ते ? इति चेत् , प्रतिबन्धकनिवृत्त्यर्थमेवेत्यर्थः ।
1 इति कर्मणि च-ख.
प्रसरन्-ख.