SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ 702 • सिद्धे प्रामाण्यसमर्थनम् [न्यायमञ्जरी तथाविधात्मरूपाधिगतये * सत्यासत्यस्वभावनामरूपप्रपञ्चविला. पन'द्वारेण' तत्रोपयुज्यत इति सिद्धसाध्यम ॥ सर्वेषामपि कर्मणां वात्मज्ञानाङ्गत्वम् तिष्ठतु वा यमनियमप्राणायामप्रत्याहारधारणाद्यात्मशानोपयोगीतिकर्तव्यताविधिः! अन्येऽपि ज्योतिष्टोमादिविधयः तनिष्ठा एवेति वेदान्तवादिनः। साध्यस्य सर्वस्य क्षयित्वेनानुपादेयत्वात् , सिद्धस्य ब्रह्मण एव अनाद्यविद्यातीतस्यानपायिनः पुरुषार्थत्वात्, स्तोकस्तोकप्रपञ्चविलापनद्वारेण उत्तमाधिकारयोग्यत्वापादनात् ब्रह्मप्राप्तयौपयिका एव सर्वविधयः। तथा च मनुः-(म, स्मृ. २-११) 'स्वाध्यायेन व्रतहों मैः विद्येनेज्यया सुतः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः' इति ॥ [सर्वविधीनामपि ब्रह्मप्राप्तिपर्यवसायित्वम् ] .. तदेवं सिद्ध एवार्थे वेदस्याहुः प्रमाणताम् । * सर्वा हि विधयो' ब्रह्मप्राप्तिपर्यवसायिनः ॥ १४४ ॥ आस्तां वाऽयं विषयः बहु वक्तव्यः, प्रमाणता तु गिराम् । सिद्धे कार्ये चार्थे तुल्यैव प्रमितितुल्यत्वात् ॥ १५ ॥ * सत्यासत्येति-जगतः स्वरूपतः सत्यत्वं, विकारतः असत्यत्वं च वेदान्तिमिः समर्थितम् ॥ वेिदान्तवादिन इति । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यझेन दानेन तपसा' (बृ. ४-४-२२) इत्यादिना निष्काममनुष्ठितकर्मणां ब्रह्म- . ज्ञानोपयोगिस्वमुक्तम् ।। *साध्यस्य-प्रयत्नसाध्यस्य । ब्राह्मी-ब्रह्मसम्बन्धिनी ॥ 1द्वारा-ख. वेदान्तिन:-ख. प्रमाणताम् । सर्वस्तावदिषयो बहुवक्तभ्यः प्रमाणता तु गिराम्-ख. आस्ता वाऽयं विषयो-ग.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy